पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/२०८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१९९
द्वादश: सर्गः।


न विरोधिनी रुषमियाय पथि मृगविहङ्गसंहतिः।
घ्नन्ति सहजमपि भूरिभियःसममागताः सपदि वैरमापदः ॥४६॥

  नेति । पथि पलायनमार्गे विरोधिनी जातिवैरिणी मृगानां सिंहव्याघ्रादीनां विहंगानां काकोलूकानां च संहतिः संघो रुषं परस्परक्रोधं नेयाय न प्राप । किं तु सहैव चचारेत्यर्थः।तथा हि। भूरि प्रभूता भीर्यासु ताः समं साधारण्येनागता आपदो विपत्तयः सहजं स्वाभाविकमपि वैरं सपदि घ्नन्ति । नहि संघातव्यसनेषु प्रजायते वैरानुबन्ध इति भावः ॥

चमरीगणैर्गण[१]बलस्य बलवति भयेऽप्युपस्थिते ।
वंशविततिषु विष[२]क्तपृथुप्रियबालवालधिभिराददे धृतिः॥४७॥

  चमरीति ॥ वंशविततिषु वेणुगुल्मेषु विषक्ता लग्नाः पृथवो भृशं प्रियबाला:। प्रिय- रोमाणो बालधयः पुच्छानि येषां तैः । 'पुच्छोऽस्त्री लूमलाङ्गूले बालहस्तश्च बालधिः' इत्यमरः । चमरीगणैर्मृगविशेषैर्गणबलस्य शिवबलस्य संबन्धिनि । तद्धेतुक इत्यर्थः । संबन्धमात्रविवक्षायां षष्ठी।अन्यथा'भीत्रार्थानां भयहेतुः' इति पञ्चमी स्यात्।बलवति प्रबले भय उपस्थिते प्राप्तेऽपि धृतिधैर्यमाददे स्वीकृता । बालच्छेदभयात्प्राणहानिमप्यवगणय्य स्थितमित्यर्थः॥

हरसैनिकाः प्रतिभयेऽपि गजमदसुगन्धिकेसरैः ।
स्वस्थमभिदृशिरे सहसा प्रतिबोधजृम्भितमुखैर्मृगाधिपैः॥४८॥

  हरेति॥ प्रतिभये भयहेतौ।'भयंकरं प्रतिभयम्' इत्यमरः प्राप्तेऽपीति शेषः। गजमदैः सुगन्धयः सुरभयः केसराः सटा येषां तैः। हतानेकगजैरित्यर्थः । सहसा सेनाकल- कलश्रवणानन्तरमेव प्रतिबोधेन निद्रापगमेन जृम्भितानि व्यात्तानि मुखानि येषां तैर्मृगाधिपैः सिंहैः स्वस्थं निःशङ्कमेव यथा तथा हरसैनिका अभिददृशिर ईक्षिताः। न तु किंचित्क्षुभितमित्यर्थः । युक्तं चैतद्राजनामधारिणां केसरिणामिति भावः॥

बिभरांबभूवुरपवृत्तज[३]ठरशफरीकुलाकुलाः।
पङ्कविषमिततटाः सरितः करिरुग्णचन्दनरसारुणं पयः ॥४९॥

  बिभरामिति ॥अपवृत्तजठरैस्तत्कालक्षोभाल्लुठितोदरैः शफरीकुलैराकुला व्याप्ताः पङ्कै- र्विषमितानि दुर्गमीकृतानि तटानि कूलानि यासां ताः सरितः करिभिः । पलायमानैरिति शेषः । रुग्णानां मार्गरोधितया भग्नानाम् । 'ओदितश्च' इति निष्ठानत्वम् । चन्दनानां रसैररुणं करिरुग्णचन्दनरसारुणं पयो बिभरांबभूवुः । भृधातोः भीह्रीभृहुवांश्लुवच्च' इत्याम्प्रत्ययः । श्लुवद्भावश्च । 'कृञ्चानुप्रयुज्यते लिटि' इति भुवोऽनुप्रयोगः ॥


  1. 'शिवबलस्य' इति पाठः
  2. 'विषक्तभृश' इति पाठः
  3. 'वितत' इति पाठः