किंबहुना ममायं निश्चयः श्रूयतामित्याह-
विच्छिन्नाभ्रविलायं वा विलीये नगमूर्धनि । |
विच्छिन्नेति ॥ विच्छिन्नं वाताहतं यदभ्रं तदिव विलीयेति विच्छिन्नाभ्रविलायं यथा तथा । 'उपमाने कर्मणि च' इति कर्तर्युपपदे णमुल् । नगमूर्धन्यस्मिन्गिरिशृङ्गे विलीये विशीर्ये वा । कषादिषु यथाविध्यनुप्रयोगः । यद्वा सहस्राक्षमिन्द्रमाराध्यायश एव शल्यं तदुद्धर उद्धरिष्यामि । न तु गत्यन्तरशङ्केत्यर्थः । वाशब्दो विकल्पे ।
इत्युक्तवन्तं परिरभ्य दोर्भ्यां तनूजमाविष्कृतदिव्यमूर्तिः । |
इतीति॥ मघवेन्द्र इत्युक्तवन्तं तनूजं पुत्रमर्जुनम्। आविष्कृता प्रकटिता दिव्यमूर्तिर्निज- रूपं येन स तथोक्तः सन् । दोर्भ्यां बाहुभ्यां परिरभ्य विभूत्यै श्रेयसे । उपहन्यतेऽनेनेत्युपघातम् । करणे घञ्प्रत्ययः । अघानां दुःखानामुपघातमघोपघातं भवः संसारस्तस्योद्भवः कारणमिति भवोद्भवः शिवस्तस्याराधनमुपासनमादिदेश । शिवमुद्दिश्य तपश्चरेत्याज्ञापयामासेत्यर्थः ॥
प्रीते पिनाकिनि मया सह लोकपालैर्लोकत्रयेऽपि विहिताप्रतिवार्यवीर्यः । |
इति भारविकृतौ महाकाव्ये किरातार्जुनीय एकादशः सर्गः ।
प्रीत इति ॥ पिनाकिनि शिवे प्रीते सति लोकपालैः सह मया लोकत्रयेऽपि विहितं दत्तमप्रतिवार्यमनिवार्यं वीर्यं यस्य स तथोक्तः सन् । परेषां शत्रूणां लक्ष्मीं भृशं समुत्सुकयितासि समुत्सुकां त्वय्यनुरक्तां कर्तासि । पुनराहरिष्यसीत्यर्थः । वीरभोग्याः संपद इति भावः। उत्सुकशब्दात् 'तत्करोति' इति ण्यन्तात्कर्तरि लुट् । इति वाचमुच्चार्य तेनेन्द्रेण तिरोबभूवेऽन्तर्दधे । भावे लिट्॥
इति श्रीमहामहोपाध्यायकोलाचलमल्लिनाथसूरिविरचितायां किरातार्जुनीयकाव्य- व्याख्यायां घण्टापथसमाख्यायामेकादशः सर्गः समाप्तः।
- ↑ 'तस्मै भवा' इति पाठः