मानत्यागे दोषमुक्त्वा तत्सद्भावे षड्भिर्गुणमाह-
अलङ्घ्यं तत्तदुद्वीक्ष्य य[१]द्यदुच्चैर्महीभृताम् । |
अलङ्घ्यमिति ॥ महीभृतां पर्वतानां संबन्धि यद्यच्छृङ्गादिकमुच्चैरुन्नतं तत्तदलङ्घ्य- मुद्वीक्ष्योत्प्रेक्ष्य । तर्कयित्वेति यावत् । महतां महात्मनां तुङ्गता मानौन्नत्यं ज्यायसीं प्रियतां प्रियत्वं केन हेतुना मा गात् । न केनापि । प्रियत्वं गच्छत्येवेत्यर्थः । आशिषि माङि लुङ् । अटोऽपवादः। दैवादनिच्छतोऽपीच्छामुत्पादयत्येवौषधवदित्यर्थः । आशंसनार्थमाशीःप्रयोगः । उद्धीक्ष्येत्यसमानकर्तृकत्वनिर्देशः क्वचित्प्रयोगदर्शनात्सोढव्यः। केचित् 'उद्वीक्ष्यम्' इति पठन्ति । तत्र यद्यदुच्चैस्तत्तदलङ्घ्यमुद्वीक्ष्यमवलोकनीयं न चोल्लङ्घनीयमिति । अतो महतामित्यादि योजयन्ति ॥
तावदाश्रीयते लक्ष्म्या तावदस्य स्थिरं यशः। |
तावदिति ॥ किं च । तावदेवासौ लक्ष्म्याश्रीयते। तावदस्य पुंसो यशः स्थिरम् । तावदेवासौ पुरुषः। पुरुषत्वेन गण्यत इत्यर्थः। यावन्मानादभिमानान्न हीयते न भ्रंश्यति। मानहीनस्य न किंचिच्छुभमस्तीत्यर्थः ॥
स पुमानर्थवज्जन्मा यस्य नाम्नि पुरःस्थिते। |
स इति ॥ स पुमानर्थवज्जन्मा सार्थकजन्मा यस्य पुंसो नाम्नि पुरोऽग्रे स्थिते सति संख्यायां पुरुषगणनाप्रस्ताव उद्यता गुणमधिकृत्योन्नमिताङ्गुलिरन्यां द्वितीयामङ्गुलिम् ।। उद्यतामिति शेषः । नाभ्येति न प्राप्नोति । अद्वितीयत्वादस्येत्यर्थः। एतन्मानरहितस्य न संभवतीति भावः॥
दुरासदवनज्यायान्गम्यस्तुङ्गोऽपि भूधरः । |
दुरासदेति ॥ दुरासदैवंनैर्ज्यायान्प्रवृद्धस्तथापि तुङ्गोऽपि भूधरो गम्यो गन्तुं शक्य एव। प्रसिद्धं चैतदिति भावः।महौजस्कं प्रतापसंपन्नं मानप्रांशं मनोन्नतम्। पुरुषमिति शेषः । अलङ्घ्यता न जहाति। न कदाचिन्मानीलङ्घयितुं शक्यत इत्यर्थः । गिरेरपि गरीयान्मानाधिक इति भावः । अत्रोपमानाद्भूधरादुपमेयस्य मानिनो धर्मान्तर- साम्येऽप्यलङ्घ्यत्वेनाधिक्यकथनाद्व्यतिरेकालंकारः॥
- ↑ 'यदेवोच्चैः' इति पाठः