सान्त्वनैरनुनयैर्न तुतोष । तथाहि । रूढप्रणयस्य गाढप्रेम्णो जनस्य संबन्धी चेतसो
मनसोऽमर्षः प्रकोपः किमपि कुतोऽपि हेतोरनुनये सति भृशायते गाढो भवति ।
'भृशादिभ्यो भुव्यच्वेर्लोपश्च हलः' इति क्यङ् । अन्यत्र शान्तिहेतुरनुनयोऽत्र
प्रकोपायैव भवति । तत्र कारणं तु न ज्ञायत इत्यर्थः ।
इत्थं विहृत्य वनिताभिरुदस्यमानं पीनस्तनोरुजघनस्थलशालिनीभिः । |
इत्थमिति ॥ पीनै: स्तनैरूरुभिर्जघनस्थलैश्च शालन्त इति तथोक्ताभिरिति सलि- लनोदनसामर्थ्योक्तिः । स्थलस्य साक्षादप्राण्यङ्गत्वान्न द्वन्द्वैकवद्भावः । वनिताभिरित्थं विहृत्योदस्यमानं नुद्यमानमुत्सर्पितैरुपरिभावं प्रापितैरूर्मिचयैर्लङ्घितस्तीरदेशो येन तद्वारि । औत्सुक्यं विहारासहिष्णुत्वं तेन नुन्नं प्रेरितमिवेत्युत्प्रेक्षा । 'नुदविद-' इत्यादिना निष्ठानत्वम् । पुरोऽग्रे प्रतस्थे । स्वजनवदिति भावः ।।
ती[२]रान्तराणि मिथुनानि रथाङ्गनाम्नां नीत्वा विलोलितसरोजवनश्रियस्ताः। |
तीरान्तराणीति ॥ रथाङ्गनाम्नां मिथुनानि चक्रवाकद्वन्द्वान्यन्यानि तीराणि तीरान्तराणि नीत्वा । नियोज्येत्यर्थः । अविहितलक्षणस्तत्पुरुषो मयूरव्यंसकादिषु द्रष्टव्यः । विलोलिता विलुलिताः सरोजवनश्रियो याभिस्ताः सुरसरिज्जलैर्धौतहाराः. क्षालितमुक्तावलयस्ताः स्त्रियस्तारावितानैरुडुगणैस्तरला भासुराः । 'तरलो भासुरे हीरे चञ्चलेऽपि' इति वैजयन्ती । यामवत्यो रात्रय इव । संरेजिरे शुशुभिरे ॥
संक्रान्तचन्दनरसाहितवर्णभेदं विच्छिन्नभूषणमणिप्रकरांशुचित्रम् । |
इति भारविकृतौ महाकाव्ये किरातार्जुनीयेऽष्टमः सर्गः।
संक्रान्तेति ॥ संक्रान्तैश्चन्दनरसैर्मलयजद्रवैराहितो वर्णभेदो रूपान्तरं यस्य तत् । विच्छिन्नानि त्रुटितानि यानि भूषणानि तेषां ये मणिप्रकरां मणिगणास्तेषामंशुभिश्चित्रं