तु मुदौत्सुक्येनैवाश्लिष्य प्रियमानन्दयति स्म । तथाहि । रामाः स्त्रियोऽकृत्रिमोऽनारोपितो
यः प्रेमैव रसस्तेनाहितैनितैः कृतकैः । कृत्रिमैरपीत्यर्थः । ईहितैश्चेष्टितैर्मनो हरन्ति ।
आरोपितमपि भयं प्रेममूलत्वान्मनोहरं बभूवेत्यर्थः । अत्राल्पानुभावेन भयेन
सहजरागनिगूहनान्मीलनालंकार:- 'मीलनं वस्तुना यत्र वस्त्वन्तरनिगूहनम्' इति
लक्षणान्तरसंभवादर्थान्तरन्यासेन संसृज्यते ॥
तिरोहितान्तानि नितान्तमाकुलैरपां वि[१]गाहादलकैः प्रसारिभिः । |
तिरोहितेति ॥ अपां विगाहान्नितान्तमाकुलैर्विकीर्णैः प्रसारिभिरायतैरलकैः केशैस्तिरोहितान्तानि च्छन्नप्रान्तानि वधूनां वदनानि द्विरेफवृन्दैरन्तरितानि च्छन्नानि सरोरुहाणि तैः सरोरुहैस्तुल्यतां ययुरित्युपमालंकारः ॥
करौ धुनाना नवपल्लवाकृती पयस्यगाधे किल जातसंभ्रमा। |
कराविति ॥ मानिनी पयस्यगाधे सति । किलेत्यलीके । मजनभयादिवेत्यर्थः । जातसंभ्रमोत्पन्नभयात् एव नवपल्लवाकृती करौ धुनाना कम्पयन्ती । धुनोतेः त्र्यादिकात्कर्तरि लटः शानच् । सखीषु विषये निर्वाच्यमवाच्यम् । अनिन्द्यमित्यर्थः । धार्ष्ट्यदूषितश्च न भवतीत्यधार्ष्ट्यदूषितस्तम् । वस्तुतो रागमूलमपि भयमूलत्वारोपादिति भाव:। प्रियाङ्गसंश्लेपमवाप । अत्रापि तुल्याङ्गेन भयेनागन्तुकेन सहजानुरागनिगूह- नान्मीलनालंकारः । तदुक्तं काव्यप्रकाशे -- 'समानलक्षणं वस्तु वस्तुना यन्निगृह्यते। निजेनागन्तुना वापि तन्मीलनमुदाहृतम् ॥'
प्रियैः सलीलं करवारिवारितः प्रवृद्धनिःश्वासवि[२]कम्पितस्तनः । |
प्रियैरिति ॥ प्रियैः कामिभिः सलीलं करवारिभिरञ्जलिजलैर्वारितोऽवरुद्धः। सिक्त इत्यर्थः । प्रवृद्धै संततैर्निःश्वासैर्विकम्पितौ स्तनौ यस्य सः । सविभ्रमं सविलासमाधूतानि कराग्रपल्लवानि पाणिपल्लवानि येन सः। विलसनशीला विलासिनी । मै कष- लसकत्थस्रम्भः' इति धिनुण्प्रत्ययः । सैव जनः । जातावेकवचनम् । यथार्थतामाप । उक्तरीत्यानेकर्विलासवत्तया यथार्थनामकत्वमवापेत्यर्थः । 'क्वचिद्गम्यमानार्थस्याप्रयोगः' इति नाम्नो न प्रयोगः । यथा माधे-~~-'चिराय याथार्थ्यमलम्भि दिग्गजैः' इति। क्वचित्प्रयुज्यते च । यथा रघुवंशे--"परंतपो नाम यथार्थनामा' इति। नैषधेऽपि-- 'स जयत्यरिसार्थसार्थकीकृतनामा किल भीमभूपतिः' इति । स्वभावोक्तिरलंकारः॥
उदस्य धैर्यं दयितेन सादरं प्रसादितायाः करवारिवारितम् । |