द्युतिमिति ॥ द्युतिं शोभां तेजश्च वहन्तो वेगिभिर्जविभिर्जलैरज्ञैश्च । डलयोरभेदात् ।
'जलं गोकवले नीरे ह्रीवेरे च जडेऽन्यवत्' इति विश्वः । प्रलोभान्मोहाद्धृता गृहीता
उपप्लुता मृदिताः। यद्वा कर्तरि क्तः। प्लवमाना इत्यर्थः । अन्यत्र । धनग्रहणबन्धनादिना
पीडिता वनितावतंसकाश्युताधिकारा भ्रष्टाधिकाराः सचिवा इव तत्क्षणं शोचनीयतामाययुः
प्रापुः॥
विपत्रलेखा निरलक्तकाधरा नि[१]रञ्जनाक्षीरपि बिभ्रतीः श्रि[२]यम् । |
विपत्रेति ॥ विगताः पत्रलेखास्तिलकविशेषा यासां ता विपत्रलेखाः। निरलक्तकाः क्षालितरागा अधरा यासां ताः। निरञ्जनान्यक्षीणि यासां ता निरञ्जनाक्षीरपि । ब्रवीहौ सपथ्यक्ष्णोः स्वाङ्गात्यच् । 'षिद्गौरादिभ्यश्च' इति ङीप् । तथापि श्रियं बिभ्रतीः शोभाकारणाभावेऽपि शोभमाना इति विभावनालंकारः । रामा निरीक्ष्य नभश्चरैर्गन्धर्वैस्तासां वपुषैव मण्डनमलंकृतम् । न तु मण्डनेन तद्वपुरित्यक्षरार्थः । इति बुबुधे ज्ञातम् । कर्मणि लिट् । स्वभावरमणीयानां किमलंकरणैरिति भावः ॥
तथा न पूर्वं कृतभूषणादरः प्रियानुरागेण विलासिनीजनः । |
तथेति ॥ विलासिनीजनः पूर्वं जलविहारात्प्राक्प्रियानुरागेण कृतो भूषणेष्वादर आसक्तिर्येन सः । अनुरक्ताप्रियत्वात्सम्यक्प्रसाधितः सन्नपीत्यर्थः । प्रियस्यानुरागेण च विपक्षयोषितां सपत्नीनां दृष्टीश्चक्षूंषि तथा न ददाह न दुःखीचकार । यथा जलार्द्रः सन् । नखशब्देन नखक्षतानि लक्ष्यन्ते । तान्येव मण्डनं तस्य श्रिया।तत्कृतशोभयेत्यर्थः। विपक्षयोषितां सपत्नीनां दृष्टीश्चक्षूंषि यथा ददाह तापयामास । मण्डनान्तरादपि नखमण्डमनुरागादपि तदनुभाव एव सपत्नीनां दुःखहेतुरिति भावः । जलार्द्रो ददाहेति- विरुद्धकार्योत्पत्तिरूपो विषमालंकारः । 'विरुद्धकार्यस्योत्पत्तिर्यत्रानर्थस्य वा भवेत् । विरूपघटना वा स्याद्विषमालंकृतिस्त्रिधा ॥' इति लक्षणात् ।।
शुभाननाः साम्बुरुहेषु भीरवो विलोलहराश्चलफेनपङ्क्तिषु ।। |
शुभेति ॥ शुभानना विलोलहारा नितान्तगौर्योऽरुणाङ्ग्य:। 'गौरोऽरुणे सिते पीते' इति वैजयन्ती। भीरवस्ताः स्त्रियः साम्बुरुहेषु चलाः फेनपङ्क्तयो येषु तेषु हृतानि कुङ्कुमानि यैस्तेषु । कुङ्कुमसंक्रमारुणेष्वित्यर्थः । ऊर्मिषु विषयेष्वलमत्यर्थं परभागं गुणोत्कर्षं न लेभिरे । 'परभागो गुणोत्कर्षः' इति यादवः । तासामूर्मीणां चारुणत्वादिगुणसाम्यान्न कश्चिद्विशेषो लक्ष्यत इत्यर्थः । अत एव सामान्यालंकार:---- सामान्यं गुणसाम्येन