चिते सति वनश्रीर्निःसारतयेवेति हेतूत्प्रेक्षा । भूरुहांस्तरून्विहाय वनितासु पदं संदधे । अत्र वनितागतायाः पुष्पप्रसाधनसंभवाया लक्ष्म्या विषयभूताया निगरणेन विषयेण वनश्रियो वनितागतत्वोक्यासंबन्धे संबन्धरूपाभेदे भेदरूपा वातिशयोक्तिरलंकारः | विषयस्यानुपादानाद्विषय्युपनिबध्यते । यत्र सातिशयोक्तिः स्यात्कविप्रौढोक्तिजीविता ॥' इति लक्षणादुत्प्रेक्षात्वङ्गमस्याः ॥
प्रवालभङ्गारुणपाणिपल्लवः परागपाण्डूकृतपीवरस्तनः। |
प्रावलेति ॥ प्रवालभङ्गेन पल्लवलवेनारुणः पाणिपल्लवो यस्य । तद्रसरञ्जनादित्यर्थः। परागेण पुष्परजसा पाण्डूकृतौ पीवरौ स्तनौ यस्य स पुष्पैः सुगन्धिः सुरभिरङ्गनाजनो महीरुहो वृक्षजाताद्वपुर्गुणस्य स्वदेहगुणस्योच्छ्रायः पाणिपल्लवारुण्यादेर्य उत्कर्षस्तमाददे लब्धवानिवेत्युत्प्रेक्षा । वस्तुतस्तु स्वाभाविक एव प्रवालभङ्गादिभिरभिव्यज्यत इति भावः । उत्कृष्टः श्राय उच्छ्राय इति घञन्तेन प्रादिसमासः । न तूपसृष्टाद्धञ्प्रत्ययः। 'श्रिणीभुवोऽनुपसर्गे' इति प्रतिषेधात् ।। पञ्चभिः कुलकमाह---
वरोरुभिर्वारणहस्तपीवरैश्चिराय खिन्नान्नवपल्लवश्रियः। |
वरोरुभिरिति ॥ अनुसानु सानुषु यद्वर्त्म ततः सकाशाद्गुरुणा खेदेन भन्थरमलसं विनिर्यतीनां निर्गच्छन्तीनां सुराङ्गनानां संबन्धिभिर्वारणहस्तपीवरैः करिकरस्थूलैः । वराश्च त उरवश्चेति तैः । चिराय खिन्नान् । किं च नवपल्लवानां श्रीरिव श्रीर्येषां तान् । तद्वन्मृदूनित्यर्थः । अत एव समे समस्थलेऽपि । किं पुनर्विषम इति भावः । यातुं गन्तु- मनीश्वरानशक्तानत एव मदादिव पदे पदे । वीप्सायां द्विर्भावः । प्रस्खलतश्चरणान् । मदादिवेत्युपमा ॥
विसारिकाञ्चीमणिरश्मिलब्धया मनोहरोच्छ्रायनितम्बशोभया । |
विसारीति ॥ विसारिभिः काञ्चीमणिरश्मिभिर्लब्धया । तज्जनितयेत्यर्थः । मनोहर उच्छ्राय उत्सेधो येषां तेषां नितम्बानां शोभया करणेन नवसैकतानां द्युतिं शोभां जित्वा स्थितानि । तत्तुल्यानीत्यर्थः । अत एवोपमालंकारः । श्रमेणातिरिक्तैरतिश- यितैर्गौरवैर्गुरुत्वैरुपलक्षितानि । नितरांभारायमाणानीत्यर्थः । जघनानि च । उच्छ्रायो व्याख्यातः॥
समुच्छ्वसत्पङ्कजकोशकोमलैरुपाहितश्रीण्युपनीवि नाभिभिः । |