पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/१२२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
११३
अष्टमः सर्गः ।


  स्वगोचर इति । चित्तहारिणा मनोहरेण शाखिनां प्रसवेन पुष्पजातेन विलोभ्यमाना। आकृष्यमाणा योषितः स्वगोचरे स्वविषये । स्वकरप्रचये सत्यपीत्यर्थः। प्रसव इति शेषः । उपकर्तुं परिचरितुमिच्छतां नभश्चराणां गन्धर्वाणां प्रणयेन सहायहेतुना प्रियाणि चक्रुः । स्वकरग्राह्यमपि प्रसवं स्वकान्तप्रियार्थं तद्दीयमानमेवाग्रहीषुरित्यर्थः।।

प्रयच्छतोच्चैः कुसुमानि मानिनी विपक्षगोत्रं दयितेन लम्भिता ।
न किंचिदूचे चरणेन केवलं लिलेख बाष्पाकुललोचना भुवम् ॥१४॥

  प्रयच्छतेति ॥ कुसुमानि प्रयच्छता ददता दयितेनोच्चैरुच्चैस्तरां विपक्षगोत्रं सपत्नीनामधेयं लम्भिता प्रापिता । तन्नाम्नाहूतेत्यर्थः । 'नाम गोत्रं कुलं गोत्रम्' इति शाश्वतः। मानिन्यत एव न किंचिदूचे । कर्तरि लिट् । किंतु केवलं बाष्पाकुललोचना सती चरणेन भुवं लिलेख ।गोत्रस्खलनजनितेर्ष्यानिमित्तनिर्वेदादिति भावः। मानिन्यत एव न किंचिदूच इत्युक्तम् । तदुक्तं दशरूपके--'तत्त्वज्ञानापदीर्ष्यादेर्निर्वेदः स्वावमानना। तत्र चिन्ताश्रुनिःश्वासवैवर्ण्योच्छ्वासदीनता ॥' इति ॥

प्रियेऽपरा यच्छति वाचमुन्मुखी निबद्वदृष्टिः शिथिलाकुलोच्चया ।
समादधे नांशुकमाहितं वृथा विवेद पुष्पेषु न पाणिपल्लवम् ॥१५॥

  प्रिय इति । वाचं यच्छति ददति । समालपतीत्यर्थः ।दाणः शतृप्रत्ययः ।'पाघ्ना-' इत्यादिना यच्छादशे:। प्रिये निबद्धदृष्टिरत एवोन्मुखी शिथिलःश्लथ आकुलश्चलितश्च तादृश उच्चयो नीवीबन्धो यस्याः सा । 'नारीकट्यंशुकग्रन्थौ नीविः स्यादुश्चयोऽप्यथ' इति मार्तण्डः । अपरान्या ख्यंशुकं न समादधे न बबन्ध । रागपारवश्यादिति भावः । पुष्पेषु वृथा व्यर्थमाहितमारोपितम् । अस्थाने प्रसारितमित्यर्थः । पाणिपल्लवं च न विवेद । प्रियासक्तचित्तत्वादिति भावः । एषा च प्रगल्भा नायिका।'पाणिपल्लवम्' इत्यत्रान्यतरसाधकबाधकप्रमाणाभावादुपमारूपकयोः संदेहसंकरः ॥

सलीलमासक्तलतान्तभूषणं समासजन्त्या कुसुमावतंसकम् ।
स्तनोपंपीडं नुनुदे नितम्बिना घनेन कश्चिज्जघनेन कान्तया ॥१६॥

  सलीलमिति ॥ आसक्ता लतान्ताः पल्लवा भूषणं यस्य तत् । पल्लवैः सह ग्रथितमि- त्यर्थः । कुसुमावतंसकं पुष्पशेखरम् । कान्तदत्तमिति भावः । सलीलं सविलासं समा- सजन्या शिरसि प्रतिदधत्या । 'दंशसञ्जस्वञ्जां शपिः' इति नलोपः । कान्तया कश्चि- त्स्तनाभ्यामुपपीड्येति स्तनोपपीडम् । 'सप्तम्यां च-' इत्यादिना णमुल्प्रत्ययः।नितम्बिना। प्रशंसायामिनिः । घनेन निबिडेन जघनेन । 'पश्चान्नितम्ब: स्त्रीकट्याः क्लीबे तु जननं पुरः' इत्यमरः । नुनुदे नुन्नः। अंशुकातिरेकादिति भावः । एषा च प्रगल्भैव ॥