पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/१२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रथमः सर्गः ।

 निसर्गेति ॥ निसर्गदुर्बोधं स्वभावदुर्ग्रहम् । ईषद्दु:--' इत्यादिना खल्प्रत्ययः । भूपतीनां चरितं क्व । अबोधविक्लवा अज्ञानोपहृता जन्तवः । मादृशाः पामरजना,इत्यर्थः। क्व । नोभयं संघटत इत्यर्थः । तथापि निगूढतत्त्वं संवृतयाथार्थ्यं विद्विषाँ नयवर्त्म षा- ङ्गुण्यप्रयोगः ‘संधिविग्रहयानानि संस्थाप्यासनमेव च । द्वैधीभावश्च विज्ञेयाः षङ्गुणा नीतिवेदिनाम् ॥' इत्यादिरूपो यन्मयावेदि । ज्ञातमिति यावत् । विदेः कर्मणि लुङ्। अयम् । इदं वेदनमित्यर्थः । विधेयप्राधान्यात्पुंलिङ्गनिर्देशः । तवानुभावः सामर्थ्यम् । अनुगतो भावोऽनुभाव इति घञन्तेन प्रादिसमासः । न तूपसृष्टाद्धञ्प्रत्ययः । ‘श्रिणी- भुवोऽनुपसर्गे' इत्यनुपसर्गाद्भवतेर्धातोर्धञ्विविधानात् । अतएव काशिकायमू-'कथं प्रभावो राज्ञां प्रकृष्टो भाव इति प्रादिसमासः' इति । दोषपरिहारौ सम्यग्ज्ञात्वैव विज्ञापयामि । न तु वृथा कर्णकठोरं प्रलपामीत्याशयः ॥

 संप्रति यद्वक्तव्यं तदाह-

विशङ्कमानो भवतः पराभवं नृपासनस्थोऽपि वनाधिवासिनः ।।
दुरोदरच्छद्मजितां समीहते नयेन जेतुं जगतीं सुयोधनः ॥७॥

 विशङ्कमान इति ॥ सुखेन युध्यते सुयोधनः । ‘भाषायां शासियुधिदृशिधृषिमृषि- भ्यो युज्वाच्यः'। नृपासनस्थः सिंहासनस्थोऽपि । वनमधिवसतीति वनाधिवासिनो वनस्थात्।राज्यभ्रष्टांदपीत्यर्थः। भवतस्त्वत्तः पराभवं पराजयं विशङ्कमान उत्प्रेक्षमाणः सन् । दुष्टमुदरमस्येति दुरोदरं द्यूतम् । पृषोदरादित्वात्साधु । ‘दुरोदरो द्युतकारे पणे द्यूते दुरोदरम्' इत्यमरः । तस्य च्छद्मना मिषेण जितां लब्धां दुर्नयार्जितां जगतीं महीम् । जगती विष्टपे मह्यां वास्तुच्छन्दोविशेषयोः' इति वैजयन्ती । नयेन नीत्या 'जेतुं वशीकर्तुं समीहते व्याप्रियते । न तूदास्त इत्यर्थः । बलवत्स्वामिकमविशुद्धागमं च धनं भुञ्जानस्य कुतो मनसः समाधिरिति भावः । अत्र 'दुरोदरच्छद्मजिताम्' इति विशेषणद्वारेण पदार्थस्य चतुर्थपादार्थं प्रति हेतुत्वेनोपन्यासाद्वितीयकाव्यलिङ्गमलंकारः। तदुक्तम्-‘हेतोर्वाक्यपदार्थत्वे काव्यलिङ्गमुदाहृतम्' इति ।

 ‘नयेनं जेतुं जगतीं समीहते' इत्युक्तम् । तत्प्रकारमाह-

तथापि जिह्मः स भवज्जिगीषया तनोति शुभ्रं गुणसंपदा यशः।
समुन्नयन्भूतिमनार्यसंगमाद्वरं विरोधोऽपि समं महात्मभिः ॥८॥

 तथापीति । तथापि साशङ्कोऽपि । जिह्मो चक्रः । चञ्चक इति यावत् । स दुर्योधनो भवज्जिगीषया । गुणैर्भवन्तमाक्रमितुमिच्छयेत्यर्थः । 'हेतौ' इति तृतीया । गुणसंपदा दानदाक्षिण्यादिगुणगरिम्णा करणेन । शुभ्रं यशस्तनोति । स खलो, गुणलोभनीयां त्वत्संपदमात्मसात्कर्तुं त्वत्तोऽपि गुणवत्तामात्मनः प्रकटयतीत्यर्थः । नन्वेवं गुणिनः सतोऽपि सज्जनविरोधो महानस्त्यस्य दोष इत्याशङ्कय सोऽपि तत्संसर्गालाभे नीच संगमाद्वरमुत्कर्षावहत्वादित्याह-समिति। तथ्याहे । भूतिं समुन्नयन्नुत्कर्षमापादयन् ।