पृष्ठम्:काव्यालङ्कारसूत्रवृत्तिः (कामधेनुव्याख्यासहिता).pdf/१९६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१७६
[अधि. ५.
काव्यालंकारसूत्रवृत्तिः।

 वरतनुरथ वास्मिन्नैव दृष्टा त्वया मे ।' अत्र मनुष्यजातेरविवक्षेत्यूङ् न कृतः।

ऊकारान्तादप्यूङ् प्रवृत्तेः ॥ ४८॥

 उत ऊङ् विहित ऊकारान्तादपि क्वचित् भवति । आचार्यप्रवृत्तेः । क्वासौ प्रवृत्तिः ? 'अप्राणिजातेश्चारज्जवादीनाम्' इति । अलाबूः, कर्कन्धूरित्युदाहणम् । तेन 'सुभु किं संभ्रमेण'। अत्र सुभ्रुशब्दः ऊङि सिद्धो भवति । ऊङि त्वसति सुभ्रूरिति स्यात् ।

कार्तिकीय इति ठञ् दुर्धरः ॥ ४९ ॥

 'कार्तिकीयो नभस्वान्' इत्यत्र 'कालाट्ठञ्' इति ठञ् दुर्धरः। ठञ् भवन् दुःखेन ध्रियत इति ।

शार्वरमिति च ॥ ५० ॥

 शार्वरं तम इत्यत्र च 'कालाट्ठञ्' इति ठञ् दुर्धरः ।

 ऊकान्तादपीति । यद्यपि ‘ऊङुत' इत्यत्र तपरकरणमुकारान्तादूङ्विधानार्थं कृतम् , तथाप्याचार्यवचनसामर्थ्यादूकारान्तादप्यूङ् प्रवर्तत इत्याह-उत ऊङ् विहित इति । प्रश्नपूर्वकं प्रवृत्तिं दर्शयति ---क्वासौ प्रवृत्तिरिति । प्रवृत्तिरारम्भः । अलाबू, कर्कन्धूरित्युदाहरणसिध्यर्थम् 'अप्राणिजातेश्चारज्ज्वादीनाम्' इत्यूकारान्तादप्यूङ्प्रत्ययारम्भात्तपरकरणमविवक्षितमिति ज्ञायते । ननु यदेतदूकारान्तादूङ्विधानं तत् पिष्टपेषणप्रायमिति शङ्कां परिहरति-- तेनेति । सुभ्रूशब्दादपि मनुष्यजातिविवक्षायामूङ्प्रत्यये नदीसंज्ञायां संबुद्धौ ह्रस्वो भवतीति दर्शयति- अत्र सुभ्रशब्द इति ॥

 कार्तिकीय इति । अत्र कार्तिके भव इति भवार्थत्वं वक्तुं युक्तम् । तथात्वे 'कालाट्ठम्' इति शैषिकेष्वर्थेषु विधीयमानष्ठञ् दुर्निवारतया प्राप्नोति । अतः कार्तिकीय इति न सिध्यतीत्याह-- अत्रेति । दुर्धर इति पदार्थमाह-दुःखेति । दुर्निरोध इत्यर्थः ।

 शार्वरमिति । अत्रापि ठञो दुर्धरत्वेन शावरमिति न सिध्यतीत्याह-शार्वरं तम इति।