पृष्ठम्:काव्यालङ्कारसूत्रवृत्तिः (कामधेनुव्याख्यासहिता).pdf/१८३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[अधि. २.
१६३
कामधेनुसहिता।

 'बिम्बाधरः पीयते' इति प्रयोगो दृश्यते; स च न युक्तः । अधरबिम्ब इति भवितव्यम् , 'उपमितं व्याघ्रादिभिः--' इति समासे सति । तत् कथं बिम्बाधर इति ? आह- वृत्तौ मध्यमपदलोपिन्याम् । शाकपार्थिवादित्वात् समासे मध्यमपदलोपिनि सति बिम्बाकारोऽधरो बिम्बाधर इति । तेन बिम्बोष्ठशब्दोऽपि व्याख्यातः । अत्रापि पूर्ववृत्तिः । शिष्टप्रयोगेषु चैष विधिः । तेन नातिप्रसङ्गः ।

आमूललोलादिषु वृत्तिर्विस्पष्टपटुवत् ॥ १६ ॥

 'आमूललोलम् ' 'आमूलसरसम्' इत्यादिषु वृत्तिर्विस्पष्टपटुवत् मयूरव्यंसकादित्वात् ।

न धान्यषष्ठादिषु षष्ठीसमासप्रतिषेधः पूरणेन तद्धितान्तत्वात् ॥ १७॥


यति -- बिम्बाधरः पीयत इति । प्रामाणिकप्रयोगदर्शनादयमसाधुरिति वक्तुमयुक्तमित्याशङ्क्याह-- स च न युक्त इति । लक्षणानुगुणं प्रयोगं दर्शयन्नस्या अयुक्तत्वं दर्शयति-~~ अधरबिम्ब इति । समाधत्ते-- वृत्तौ मध्यमपदलोपिन्यामिति । उक्तामुपपत्तिमन्यत्राप्यनुगमयति-- तेनेति । ननु तर्हि व्याघ्राकारः पुरुषो व्याघ्रपुरुष इत्यपि स्यादित्यतिप्रसङ्गं परिहरति--- शिष्टप्रयोगेषु चैष विधिरिति ।

 आमूललोलादिष्विति । आमूलं लोलमिति विग्रहः । अत्र तत्पुरुषाधिकारे लक्षणदर्शनात् समासान्तरस्य चाप्रसक्तेः कथमामूललोलादिप्रयोगः सिध्यतीति चिन्तायाम् ‘अविहितलक्षणस्तत्पुरुषो मयूरव्यंसकादिषु द्रष्टव्यः' इति वचनात् विस्पष्टपटुशब्दवत् समाससिद्धिरित्याह- आमूललोलमामूलसरसमिति ।

 न धान्यषष्ठादिष्विति । धान्यानां षष्ठमुञ्छानां षष्ठमित्यत्न पूरणगुणसुहितार्थ-' इति सूत्रेण पूरणप्रत्ययान्तेन समासनिषेधः क्रियते ; स च न भवतीत्याह-धान्यषष्ठमिति । तत्र हेतुमाह---तद्धितेति । षष्ठशब्दस्य तद्धि-