पृष्ठम्:काव्यालङ्कारसूत्रवृत्तिः (कामधेनुव्याख्यासहिता).pdf/१३१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
॥ द्वितीयोಽध्यायः ॥


 संप्रत्यर्थालंकाराणां प्रस्तावः ; तन्मूलं चोपमेति सैव विचार्यते ।

उपमानेनोपमेयस्य गुणलेशतः साम्यमुपमा ॥ १ ॥

 उपमीयते सादृश्यमानीयते येनोत्कृष्टगुणेनान्यत् , तत् उपमानम् । यदुपमीयते न्यूनगुणम् , तत् उपमेयम् । उपमानेनोपमेयस्य गुणलेशतः साम्यं यत् , असावुपमेति ।

 ननु च उपमानमित्युपमेयमिति च संबन्धिशब्दावेतौ, तयोरेकतरोपादानेनैवान्यतरसिद्धिः । यथा 'उपमितं व्याघ्रादिभिः सामान्याप्रयोगे' इत्यत्रोपमितग्रहणमेव कृतम् , नोपमानग्रहणमिति । तद्वदत्रोभयग्रहणं न कर्तव्यम् ; सत्यम् । तत् कृतं लोकप्रसिद्धिपरिग्रहार्थम् । यदेवोपमेयमुप-

  उत्खण्डिततमःस्तोममुपेयमुपरि श्रुतेः ।
  उदर्चिरुपमामिन्दोरुक्तिज्योतिरुपास्महे ॥

 शब्दालंकारेषु चर्चितेषु, खलेकपोतन्यायादखिलानामर्थालंकाराणामशेषेण प्राप्तौ, प्रकृतित्वात्तेषां प्रथममुपमां प्रस्तौति-- संप्रतीति । व्याख्यातुं सूत्रमुपादत्ते--उपमानेनेति। उपमानोपमेयपदव्युत्पत्तिं प्रदर्शयति-उपमीयत इति । उत्कृष्टगुणेन येन चन्द्रादिना सादृश्यमानीयतेऽन्यन्मुखादिकम् , तदुपमानम् । यत्तु न्यूनगुणमुत्कृष्टगुणेनान्येनोपमीयते तदुपमेयम् , उपमानेन सादृश्यं प्रापयितुमर्हमित्यर्थः । गुणलेशत इति । गुणा उपमानोपमेययोरुत्कृष्टधर्माः, तेषां लेशत एकदेशतः, क्वचिदपि सर्वाकारसादृश्यासंभवादिति भावः । ननु संबन्धिशब्दयोरेकतरग्रहणेऽन्यतरस्यानुक्तसिद्धत्वमिति शङकते-- ननु चेति । अमुमर्थमभियुक्तोक्तिसंवादेन समर्थयते--यथेति। ‘उपमितं व्याघ्रादिभिः' इति पाणिनीयसूत्रे यथोपमितपदग्रहणेनैव व्याघ्रादीनामुपमानत्वमवगम्यते, तद्वदत्राप्युपमानग्रहणं न कर्तव्यमिति शङ्कितुरभिप्रायः । परिहरति--- तत्कृतमिति