पृष्ठम्:काव्यालङ्कारः (रुद्रटः).pdf/९६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

९६ काव्यमाला। इत्येते शब्दा यथोक्तेऽर्थेऽनुपपन्नाः । करणभावो ह्येषां घटते, न कर्तृत्वम् । बुद्ध्यादि संबद्धे तु देव्दत्तादौ सर्वमुपपद्यत इति कृत्वा । यदा बुद्धिमानर्थे पश्यति तदा बुद्धिः पश्यतित्याद्युच्यत इति । अथ लेश :- दोषीभावो यस्मिन्गुणस्य दोषस्य वा गुणीभावः । अभिधीयते तथाविधकर्मनिमित्तः स लेशः स्यात् ॥ १०० ॥ दोशीभावो इति । यस्मिन्गुणस्य दोषभावो दोषस्य च गुणभावो विधीयते । कीदृशः । तथाविधं गुणस्य दोषीकरणं दोषस्य गुणीकरणं वा कर्म निमित्तं यस्य स तथोक्तः । वा- शब्द एकयोगेऽपि लेष्ट्वाख्यापनार्थः । अन्यथा यत्रोभययोगस्तत्रैव स्यादिति । उदाहरणमाह- अन्यैव यौवनश्रीस्तस्याः सा कापि दैवहतिकायाः । मश्नाति यया यूनां मनांसि दूरं समाकृष्य ॥ १०१ ॥ अन्येति । अत्र यौवनस्य गुणस्यापि युवचेतोमथनाद्दोषीभावः । अथ दोषस्य गुणभावोदाहरणमाह- हृदयं सदैव येषामन्भिग्यं गुणवियोगदुःखस्य । धन्यास्ते गुणहीना विदग्धगोष्ठीरसापेताः ॥ १०२ ॥ हृदयमिति । सुगममेव ॥ अथ्यावसरः- अर्थान्तरमुत्कृष्टं सरसं यदि वोपलक्षणं क्रियते । अर्थस्य तदभिधानप्रसङ्गतो यत्र सोऽवसरः॥ ॥ १०३ ॥ अर्थान्तरमिति । तत्रार्थस्य न्यूनस्य यद्युत्कृष्टमुदात्तं सशृङ्गारादिकं वार्थान्तरमुपलक्षणं । क्रियते सोऽवसरालंकारः । किमर्थं क्रियत इत्याह--तस्योत्कृष्टत्वादेरभिधानप्रसङ्गन । उ- त्कृष्टत्वं सरसत्वं वा न्यूनस्याभिधातुमित्यर्थः ।। उदाहरणम्- तदिदमरण्यं यस्मिन्दशरथवचनानुपालनव्यसनी । निवसन्बाहुसहायश्रकारः रक्षः क्षयं रामः ॥ १०४ ॥ तदिति । अत्र साक्षाद्रामवासस्तत्कृतश्र राक्षसक्षय उत्कृष्टो वनस्योत्कृष्टत्वख्यापना योपलक्षणत्वेन कृतः, द्वितीयोदाहरणमाह- सा सिप्रानाम नदी यस्यां मङ्कर्मयो विशीर्यन्ते । मज्जन्मालवललनाकुचकुम्भास्फालनव्यसनात् ॥ १०५ ॥