पृष्ठम्:काव्यालङ्कारः (रुद्रटः).pdf/६२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६२
काव्यमाला ।

इदमपरमसामर्थ्यं धातोर्यत्पठ्यते तदर्थोऽसौ । न च शक्नोति तमर्थं वक्तुं गमनं यथा हन्ति ॥ १ ॥ इदमिति । इदमन्यदसामर्थ्ये धातोः, यत्तदर्थोऽसौ धातुः पठ्यते न च तं निर्दिष्टमर्थे वक्तुं शक्नोति । यथा ‘हन् हिंसागत्योः’ इति पाठेऽपि । हन्तीत्युक्ते हिनस्तीति प्रतीयते न च गच्छतीति । यमक श्र्लेषचित्रेषु गत्यर्थोऽपि दृश्यते । अत एवाल्पोऽयं दोषः ।। पुनः प्रकारान्तरमाह शब्दप्रवृत्तिहेतौ सत्यप्यसमर्थमेव रूढिबलात् । यौगिकमर्थविशेषं पदं यथा वारिधौ जलभृत् ॥ ६ ॥ शब्देति । यौगिकं संबन्धजं क्वचिदर्थविशेषेऽसमर्थमेवावाचकमेव पदम् । तत्र तदर्थ स्याभाव इति चेन्न । शब्दप्रवृत्तिहेतौ सत्यपि विद्यमानेऽपि । अपिर्विस्मये । चित्रमिद मित्यर्थः । यदि शब्दप्रवृत्तिहेतुत्वं कथं तर्ह्यसमर्थत्वमित्याह--रूढिबलात्प्रसिद्धिबलात् । क्वचिदेव किंचिदेव शब्दरूपं वाचकत्वेन रूढमतस्तत्रैव प्रवर्तते नान्यत्र । एवकारोऽवधा रणे ।.असमर्थमेव न तु समर्थम् । उदाहरणं यथा वारिधौ जलभृदिति । जलधारण क्रियालक्षणे प्रवृत्तिनिमित्ते सत्यपि जलभृच्छब्दो वारिधि समुद्रमभिधातुमसमर्थः । मेघ एव तस्य रूढित्वादिति । भूयोऽपि भेदान्तरमाह निश्र्वीयते न यस्मिन्वस्तु विशिष्टं पदे समानेन । असमर्थं तच्च यथा मेघच्छविमारुरोहाश्वम् ॥ ७॥ निश्र्चीयत इति । यस्मिन्पदे तदर्थाभिधायिन्यपि विशिष्टं वस्तु न निश्चीयते तदप्य समर्थम् । कथं न निश्र्चीयत इत्याह-समानत्वात् । समानस्तुल्यो मानः परिच्छेदो विव क्षितेऽन्यत्र च वस्तुनि येन पदेन तत्तथा तद्भावस्तत्वम् । तस्मादनेकार्थवाचकत्वादि त्यर्थः । यथा मेघच्छविमारुरोहाश्वमित्युक्ते मेघानामनेकवर्णानां दर्शनान्न निश्चयः कर्तुं पार्यते । यत्र तु निश्चयस्तत्समानार्थमपि साध्वेव । यथा-‘लक्ष्मीकपोलसंक्रान्तकान्त- पत्रलतोज्ज्वलाः । दोर्द्रुमाः पान्तु वः शौरेर्घनच्छाया महाफलाः ।।' अत्र हि शौरिः कृष्णवर्ण इति । इदानीमस्यैवासमर्थदोषस्यातिव्याप्ति संहर्तुमाह यत्पदमभिनयसहितं कुरुतेऽर्थविशेषनिश्र्वयं सम्यक् । नैकमनेकार्थतया तस्य न दुष्येदसामर्थ्यम् ॥ ८॥ यदिति । यत्पदं विशेषणभूतमनेकार्थतया विवक्षितविशिष्टार्थविशेषनिश्चयं सम्यक्कु रुते । किभूतं सदभिनयसहितम् । तस्य । सामर्थ्ये निश्र्चीयते न यस्मिन्’ (६७) इत्यनेन प्राप्तं दोषाय न भवति ।