पृष्ठम्:काव्यालङ्कारः (रुद्रटः).pdf/३६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३६
काव्यमाला ।

चतुर्थोऽध्याय:।

 यमकं व्याख्याय श्लेषं व्याचिख्यासुराह—

  वक्तुं समर्थमर्थं सुश्लिष्टाक्लिष्टविविधपदसंधि ।
  युगपदनेकं वाक्यं यत्र विधियेत स श्लेषः ॥ १ ॥

 वक्तुमिति । यत्रालंकारे युगपत्तुल्यकालमेकप्रयत्नेनैवानेकं द्व्यादिकं वाक्यं विधीयेत स श्लेषः। युगपत्पदग्रहणान्महायमकादीनां श्लेषत्वनिवृत्तिः। कोदृशम्। वाक्यमर्थमभिधेयं वक्तुं भणितुं समर्थे शक्तम् । अनेकमितोहापि द्रष्टव्यम् । तथा सुष्टु श्लिष्टः सुप्रयोजितोऽक्लिष्टः कष्टकल्पनारहितो विविधो नानाविधः पदानां सुप्तिङन्तानां संधिरेकीभावो यत्र तत्सुश्लिष्टाक्लिष्टविविधपदसंधीति ।

 सामान्यलक्षणमभिधाय विशेषाभिधानाय श्लेषप्रकारानाह—

  वर्णपदलिङ्गभाषाप्रकृतिप्रत्ययविभक्तिवचनानाम् ।
  अत्रायं मतिमद्भिर्विधीयमानोऽष्टधा भवति ॥ २ ॥

 वर्णपदेति । अत्र शब्दालंकारेष्वयं श्लेषो मतिमद्भिर्वधीयमानो धीमद्भिः क्रियमाणोऽष्टधाष्टप्रकारो भवति । केषां विधीयमान इत्याह—वर्णेत्यादि । वर्णश्च पदं च लिङ्गं च भाषा च प्रकृतिश्च प्रत्ययश्च विभक्तिश्च वचनं च वर्णपदलिङ्गभाषाप्रकृतिप्रत्ययविभक्तिवचनानि तेषाम् । वर्णपदादिविषयभेदात्तनामाष्टधा श्लेष इत्यर्थः । अत्रेति परमतनिरासार्थम् । अन्यैर्ह्यविशेषेण शब्दार्थयोः श्लेषोऽभ्यधायि । वर्णादिनिर्देशादेवाष्टविधत्वे लब्धेऽष्टधेति नियमार्थम् । भेदे सत्यष्टधैव नान्यथेत्यर्थः । केचिद्धि पदेषु लिङ्गमन्तर्भावयन्ति । प्रत्यये च विभक्तिवचने । विभक्तौ च वचनम् । तदेतन्न चारु। भेददर्शनात् । तथाहि हार इति भूषणं मुक्ताकलापः, हरणं हारो मोषः, हरस्यायं हारः, कोऽप्यर्थः । इत्यत्र पदश्लेषेऽपि लिङ्गश्लेषो न विद्यते । सर्वत्र पुंलिङ्गत्वात्। तथा पद्मो निधिः, पद्मं कमलम्, पद्मा श्रीरिति लिङ्गश्लेषेऽपि पदमभिन्नम् । तथा तपनस्यायं तापयतीति वा तापनः । इत्यादिषु प्रत्ययभेदेऽपि विभक्तिवचनभेदो न विद्यते । तथा सतां मुख्यः पुरःसरः सन्मुख्यः सच्छोभनं मुखं यासां ताः सन्मुख्यः । इत्यत्र वचनभेदेऽपि विभक्तिभेदो न विद्यते । इति भेदप्रतीतेर्न शोभनोऽन्तर्भाव इति ।।

 यथोद्देशस्तथा निर्देश इत्यादौ वर्णाश्लेषलक्षणमाह—

   यत्र विभक्तिप्रत्ययवर्णवशादैकरूप्यमापतति ।
   वर्णानां विविधानां वर्णश्लेषः स विज्ञेयः ॥ ३ ॥

 यत्रेति । यत्र विविधानां नानारूपाणां वर्णानामैकरूप्यं साम्यमागच्छति स वर्णश्लेषः। विरूपाणां कथं सादृश्यमित्याह—विभक्तिबलात्प्रत्ययबलाद्वर्णबलाच्चेति ।