पृष्ठम्:काव्यालङ्कारः (रुद्रटः).pdf/१७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६ अध्यायः] काव्यालंकारः। १७१ 5 आख्यायिकाया एव लक्षणंशेषमाह अथ तेन कथैव यथा रचनीयाख्यायिकाषि गणेन । निजवंशं स्वं चास्यामभिदध्यान्न त्वगञ्चन ॥ २६ ॥ अथेति । एवोऽभिन्नक्रमे । ततश्चायमर्थः-अथ तेन कविना यथैव कथाख्यायिकापि तथैव गद्दीन रचनीया । तुरंवधारणे । ततो निजवंशमात्मानं च गवेनैवास्यामभिदध्यात् । यथा हर्षचरिते । अपि च- कुर्यादत्रोच्छासान्सर्गवदेषांमुखेष्वनावूनाम् (?) । हे हे चारै छिष्टे सामान्यार्थं तदथोय ॥ २७ ॥ कुर्यादिति । सुगमं न वरम् । तदर्थाय प्रस्तुतार्थसूचनाय ॥ संशयशंसावसरे भवतो भूतस्य वा परोक्षस्य । अर्थस्य भाविनस्तु प्रत्यक्षस्यापि निश्चितते ॥ २ ॥ संशयेितुः प्रत्यक्ष स्वावसरेणैव पाठयेत्कंचित् । अन्योक्तिसमासोक्तिश्लेषाणामेकमुभयं वा ॥ २९ ॥ तत्र च्छन्दः कुर्यादार्यापरवक्त्रपुष्पिताग्राणाम्। अन्यतमं वस्तुवशादथवान्यन्मालिनीप्रायम् ॥ ३० ॥ संशयेति । संशयितुरिति । तत्रेति । वर्तमानस्यातीतस्य च परोक्षस्य भाविनस्तु प्रत्यक्षस्यापि संदेहकथनावसरे सति निश्चयाय कंचित्प्राणिनमवसरेणैवान्योक्तिसमास क्तिश्लेषणांमध्यादैकमुभयं वालंकारं पाठयेत् । तत्र चायदिच्छन्दः कुर्यात् । एवं काव्यादित्रयस्य लक्षणानाख्याय तच्छेषमाह साभिप्रायं किंचिद्विरुद्धमिव वस्तुसत्प्रसङ्गन । अन्तः कंयाश्च कुर्यात्रिष्वष्येषु प्रबन्धेषु ॥ ३१ ॥ साभिप्रायमिति । सुगमं न वरम् । विरुद्धमिव न तु विरुद्धम् । त्रिष्वपीति काव्य कथाख्यायिकासु ॥ कुर्यादभ्युदयान्तं राज्यभृशादि नायकस्यापि । अभिदध्यादेषु तंथा मोघं च मुनिम्नसद्धेन ॥ ३२ ॥ सुगमम् ॥