पृष्ठम्:काव्यालङ्कारः (रुद्रटः).pdf/१६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६ अध्यायः] काव्यालंकारः । १६९ अथ नायकप्रयाणे नागरिकाक्षोभजनपदाद्रिनदीः। अटवीकाननसरसीमरुजलधिद्वीपभुवनानि ॥ १३ ॥ स्कन्धावारनिवेशं क्रीडां यूनां यथायथं तेषु । रव्यस्तमयं संध्यां संतमसमथोदयं शशिनः ॥ १४ ॥ रजनी च तत्र यूनां समाजसंगतपानशृङ्गारान् । इति वर्णयेत्प्रसङ्गात्कथां च भूयो निबध्नीयात् ॥ ११ ॥ प्रतिनायकमपि तद्देत्तदभिमुखममृष्यमाणमायान्तम् । अभिदध्यात्कार्यवशान्नगरीरोधस्थितं वापि ॥ १६ ॥ योद्धव्यं प्रातरिति प्रबंन्धमधुपीति निशि कलत्रेभ्यः । स्ववधं विशङ्कमानान्संदेशान्दापयेत्सुभटान् ॥ १७ ॥ संनह्य कृतव्यूहं सविस्मयं युध्यमानयोरुभयोः । कृच्छेण साधु कुर्यादभ्युदयं नायकस्यान्ते ॥ १८ ॥ गंतार्थं न वरम् । कुल्यादिष्विति कुल्यो गोत्रजः । आदिशब्दाक्रुत्रिमाद्विः। तथा संमन्त्र्य निश्चित्य चेत्यत्रान्तर्भूतः कारितांथ द्रष्टव्यः । अन्यथा भिन्नकर्तृकत्वात्क्त्वा न स्यात् । नायुकमुखेन कविरेव मन्त्रयते निश्चिनोति चेति केचित् । तथा नद्यः सरितः । अटवी निर्जन देशः । कानतमुद्यानवनम्। सरस्यो महान्ति सरांसि । महॅनर्जलो देशः। द्वीपं जलमध्यस्थभूप्रदेशः । भुवनानि लोकान्तराणि । तंथा यूनां दंपतीनां क्रीडा । सा च वनेषु क्रीडा, नदीषु जलकेलिः, अदव्यां विहार इत्यादिका । तथा यूनां समाजः सं- गमः । संगीतं गेयम् । पानकं सरकम् । शृङ्गारः सुरतादिः। तथा कलत्रेभ्यः सुभट न्संदेशान्प्रदापयेत् । कथं दापयेत्। प्रबन्धेन मधुपीतिर्मधुपानं यत्र कंर्मणि । मधुपान्मपि कुत इत्याह--योद्धव्यं प्रातरिति । तथा नायकस्येति नायकस्यैव विजयं कुर्यान्न विपक्ष स्येति सूचनार्थम् ॥ अथ किमयं प्रबन्धोऽनवच्छेद एव कर्तव्यो नेत्याह सर्गाभिधानि चास्मिन्नर्वान्तरप्रकरणानिं कुर्वीत । संधीनपि सुछिष्टांस्तेषामन्योन्यसंबन्धात् ॥ १९ ॥ सर्गेति । सुगमं न वरम् । सर्गाभिधानि सर्गनामकानि। यतः ‘सर्गबन्धो महाकाव्यम्’ इत्युक्तम् । तथा संधीन्मुखप्रतिमुखगर्भविमर्शनिर्वहणाख्यन्भरतोक्तान्सुश्लिष्टान्सुरचना- कुर्वीत । कथं तथा ते स्युरित्याह--अन्योन्यसंबन्धादिति. ॥ २२