पृष्ठम्:काव्यालङ्कारः (रुद्रटः).pdf/१६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६ अध्यायः] काव्यालंकारः । एत इति । एते रसाः सम्यग्विभज्य चतुरेण कविना चारु यथा भवति तथा रचिताः सन्तो रसिकान्पुंसो रमयन्ति यस्मात् । तथेमाननधिगम्याविज्ञाय सर्वथा रम्यं काव्यं विधातुं कविर्नालं न समर्थः। तत्तस्मादथैतेष्वाद्रियेतादरं कुर्यात् । इतिश्रीरुद्रटकृते काव्यालंकारे नमिसाधुविरचितटिप्पणसमेतः पञ्चदशोऽध्यायः समाप्तः । षोडशोऽध्यायः । ‘ननु काव्येन क्रियते सरसानामवगमश्चतुर्वर्गे’ (१२।१) इत्युक्तम् , तत्र कञ्चतुर्वर्गः कथं च तं रसैः सह निबनयादित्याह-- जगति चतुर्वर्ग इति ख्यातिर्धर्मार्थकाममोक्षाणाम् । सम्यक्तानभिदध्याद्रससंमिश्रान्प्रबन्धेषु ॥ १ ॥ जगतीति। सुगमम् । प्रबन्धेष्वित्युक्तम्, अथ के ते प्रबन्धाः कियन्तो वेत्येतन्मुखेन महाकाव्यादिलक्षणं वक्तुमाह सन्ति द्विधा प्रबन्धाः काव्यकथाख्यायिकादयः काव्ये । उत्पाद्यानुत्पाद्या मंहङघुत्वेन भूयोऽपि ॥ २ ॥ सन्तीति । द्विधा प्रबन्धाः सन्ति । प्रबध्यते नायकचरितमेतेष्विति कृत्वा । के च त । काव्यकयाख्यायिकादय इति । आदिग्रहणं कुलकनाटकाद्य थे । क ते प्रबन्धाः। काव्ये कविकर्मणि । कथम् । द्विधा। उत्पाद्यानुत्पाद्यभेदात्। तथा महलघुत्वेन भूयोऽपि पुनरपि । उत्पाद्य महान्तो लघवश्वानुत्पाद्य महान्तो लघवश्चेत्यर्थः ।। अथोत्पाद्यलक्षणमाह तत्रोत्पाद्या येषां शरीरमुत्पादयेत्कविः सकलम् । कल्पितयुक्तोत्पत्ति नायकमपि कुत्रचित्कुर्यात् ॥ ३ ॥ तत्रेति । तत्र काव्यादिषु मध्ये उत्पाद्यास्ते येषां शरीरमितिवृत्तं सकलं कवि रुपाद येत् । नायकं प्रसिद्धे गृहीत्वा तव्यवहारः सर्व एवापूर्वो यत्र निबध्यत इत्यर्थः । यथा माघकाव्ये । प्रकारान्तरमाह-कल्पिता युक्ता घटमानत्पत्तयेस्य तमित्थंभूतं नायकमपि कुत्रचिकुर्यात्, आस्तामिति वृत्तम् । अत्र च तिलकमञ्जरी बाणकथा वा निदर्शनम् ।। अथानुत्पाद्यलक्षणमाह पञ्जरमितिहासादिप्रसिद्धमखिलं तदेकदेशं वा । परिपूरयेत्स्ववाचा यत्र कविस्ते त्वनुत्पाद्याः ॥ ४ ॥ १: तिलकमञ्जरीकथा धनपालकविप्रणीता, बाणकथा तु कादम्बरी सुप्रसिद्धेव.