पृष्ठम्:काव्यालङ्कारः (रुद्रटः).pdf/१४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२ अध्यायः काव्यालंकारः । १४९ अत्र चैकत्र विधिरपरत्र निषेधः । यथा शमीतरुमग्निर्दहत्येनं त्वां मन्युः कथं न दह तीति । सत्यम् । प्रथममौपम्ये विहिते पश्चादुपमेयप्रतिषेधे न किंचिदनुपपन्नम् । केचित्तु व्यतिरेकोऽयमित्याहुः । अथ सर्वमेव शास्त्रोक्तमुपसंहरन्नाह शब्दार्थयोरिति निरूप्य विभक्तरूपा न्दोषान्गुणांश्च निपुणो विसृजन्नसारम् । सरः समाहितमनाः परमाददानः कुर्वीतं काव्यमविनाशि यशोऽधिगन्तुम् ॥ ३६ ॥ शब्दार्थयोरिति । इति पूर्वोक्तेन युक्तिमता प्रकारेण शब्दार्थयोदघान्गुणांश्च निपुणः प्रवीणः कविर्निरूप्य पर्यालोच्य । किंभूतान् । विभक्तरूपान्विभागेन स्थितरूपान्। श रुदस्य हि वक्रोक्त्यादयः पञ्च गुणाः । दोषास्त्वसमर्थादयः घट्। अर्थस्य पुनर्गुणा वास्त वादयश्चत्वारः । दोषास्त्वपहेतुत्वादयो नव । ततश्वासारं दोषान्विट्ज़न् , परमुत्कृष्टं सा रमलंकारानाददानो गृहन् । किंभूतः सन् । समाहितं सावधानं मनो यस्य स तथाविधः। अनवधाने हि महाकवीनामपि स्खलितं भवति । किमर्थं पुनरेवं कुर्वीतेत्याह-अविना श्यविनश्वरं यशः प्राप्तुमिति । अत्र च वास्तवादीनां चतुर्णामपि ये सहोक्त्यादयः प्रभेदा उक्तास्तै बाहुल्यतो न पुनरेतावन्त एव । उक्तं च ‘न हुघटु इताणअवही नयने दीसन्ति कहबि पुणरुत्तां । जेवि समापियआणं अत्था वा सुकईवाणीए ।’ ततो यावन्तो हृदया वर्जका अर्थप्रकारास्तावन्तोऽलंकाराः । तेनेत्याद्यपि सिद्धं भवति । यथा-क्षान्तं न क्षमया गृहोचितसुखं त्यक्तं न संतोषत: सोढा दुःसहशीतवाततपनक्लेशा न तप्तं तपः । ध्यातं वित्तमहर्निशं नियमितप्राणैर्न शंभोः पदं तत्तत्कर्म कृतं परानतिपरैस्तैस्तैः फलैर्व वितम्’ इति श्रीरुद्रटकृते काव्यालंकारे नमिसाधुविरचितटिप्पणसमेत एकादशोऽध्यायः समाप्तः । । द्वादशोऽध्यायः । ननु काव्यकरणे कवेः पूर्वमेव फळमुक्तम्, श्रोतृणां तु किं फलमित्याह- ननु काव्येन क्रियते सरसानामवगमथुतुवनं । लघु मदुच नीरसेभ्यस्ते हि त्रस्यन्ति शास्त्रेभ्यः ॥ १ ॥ नन्विति । ननुशब्दः पृष्ठप्रतिवचने । काव्येन हेतुना चतुर्वर्गे धर्मार्थकाममोक्षलक्षणेऽव. गमोऽवबोधः क्रियते । ननु तत्र धर्मादिशास्त्राण्येव हेतुरस्ति, किं काव्येनेत्याह--लघु मृदु चेति क्रियाविशेषणम् । शर्डी कोमलोपोयं च यथा भवतीत्यर्थः । तथापि घर्मादि सारसंग्रहशास्त्रेभ्वो लघु मृदु च भविष्यतीत्याह--सरसानऽङ्गरादिप्रियाणाम् । न