पृष्ठम्:काव्यालङ्कारः (रुद्रटः).pdf/१४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११ अभ्यायः] काव्यालंकारः ।। १४ ३ ततश्च किमित्याह एतद्विज्ञाय बुधैः परिहर्तव्यं महीयसा यतात् । नहि सम्यग्विज्ञातुं शक्यमुदाहरणमात्रेण ॥ ११ ॥ एतदिति । एतद्वाम्यत्वं विशेषेण ज्ञात्वा महीयसो यत्नादादरेण परिहर्तव्यम् । महा कवयो यत्र मुह्यन्तीत्यतो महीयस यत्नादित्युक्तम् । तद्भुदाहरणानि किमेतेषु नोच्यन्तं इत्याह—नहीत्यादि । यस्मादुदाहरणमात्रेण न यथावद्विज्ञातुं शक्यते । ततः स्वधिया विज्ञाय यथा ग्राम्यत्वं न भवति तथा प्रयोज्यम्। यथा –‘व्याहृता प्रतिवर्चा न संदधे गन्तुमैच्छदवलम्बितांशुका । सेवते स्म शयनं पराङ्युखी सा तथापि रतये पिनाकिनः ॥' तथा —‘उपचरिताप्यतिमात्रं प्रकटवधू: क्षीणसंपदः पुंसः । पातयति दृशं व्रजतः स्पृहया परिधानमात्रेऽपि । ’ एवमादि ॥ अथ विरसः अन्यस्य यः प्रसङ्ग रसस्य निपतेद्रसः क्रमापेतः । विरसोऽसौ स च शक्यः सम्यग्ज्ञातुं प्रबन्धेभ्यः ॥ १२ ॥ अन्यस्येति । रसान्तरप्राप्तौ सत्यां यो रसः शृङ्गारादि निपतति सः विरसोऽर्थदोषः। ननु सर्वरसयुक्तत्वान्महाकाव्यस्य रसान्तरापातोऽभ्युपगत एव । तत्कथमत्र विरसों ऽर्थदोष इत्याह—क्रमापेतः प्रसङ्गविरुद्धः । यस्य रसस्य तत्रानवसरः स दुष्ट इत्यर्थः। किमत्रोदाहरणमित्याह--स चेत्यादि । चो हेतौ । यस्मात्स विरसऽर्थदोषः प्रबन्धेभ्यो महाकाव्यादिभ्यः सम्यग्विज्ञातुं शक्यते । अत इह नोदाहृत इत्यर्थः।। तव वनवासोऽनुचितः पितृमरणशुचं विमुञ्च किं तपसा । सफलय यौवनमेतत्सममनुरक्तेन सुतनु मया ॥ १३॥ तवेति । हयग्रीवसुतो नरकासुरानयनाय तत्पुरीं गतःतत्र च हरिहतं नरकासुरं जनेभ्यः श्रुत्वा तत्सुतां च पितृमरणदुःखेन वनगतां बुङ् समाश्वासनाय गतः, तत्र दृष्ट्या च तां सक्रामः सन्नाह-तव वनवास इत्यादि । पातनिकयैव गतार्थम् ।। प्रकारान्तरमाह यः सावसरोऽपि रसो निरन्तरं नीयते प्रबन्धेषु । अतिमहतीं बुद्धिमसौ तथैव वैरस्यमायाति ॥ १४ ॥ य इति । यः काव्यादौ कांषि प्रस्तुतो रसो नैरन्तर्येण महत वृद्धि नीयते स श्र तृणां वैरस्यमावहतीति विरसो भवति । अत्र वेणीसंहारषष्ठोऽङ्क निदर्शनम् । अथ तद्वन् यो यस्याव्यभिचारी सगुणादिंस्तद्विशेषणं क्रियते । परिपूरयितुं छन्दो यत्र स तद्वानिति ज्ञेयः ॥ १६ ॥