पृष्ठम्:काव्यालङ्कारः (रुद्रटः).pdf/१४१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

११ अध्यायः ॥ काव्यालंकारः । १४ १ तवेति । गतार्थमेव । अत्र धूलेर्बहलत्वलक्षणोऽर्थः स्थलत्वे हेतुतां यात्येव । किं तु स्थलस्य गगने निराधारत्वादवस्थानं न संभवतीत्यनयोत्तरकालभाविन्या बलवत्या युक्त्या बाध्यते ।। अथाप्रतीतः --

अर्थोऽयमप्रतीतो यः सन्नपि न प्रयुज्यते वृध्दैः । शरदिव विभाति तन्वी विकसत्पुलकोत्करेयमिति ॥ ५ ॥

अर्थ इति । अयमप्रतीतोऽर्थो भण्यते यो विद्यमानोऽपि वृध्दैः पूर्वकविभिर्न प्रयुज्यते । उदाहरणम्--[शरदिति ।] प्रसरद्रोमाञ्चनिवहा तन्वी भाति । शरच्च पुष्प्यत्पुलकाख्यवृ. क्षविशेषनिवहा । अत्र पुलकशब्दो वृक्षविशेषवाचकोऽपि तद्वाचकत्वेन पूर्वकविभिर्न प्रयुक्त इति न प्रयोज्यः । अथ निरागमः--

आगमगम्यस्तमृते य उच्यतेऽर्थो निरागमः स इति । सततं स राजसूयैरीजे विप्रोऽश्वमेधैश्र्च ॥ ६ ॥

आगमेति । योऽर्थ आगमात्सिद्धान्ताद्गम्यते, अथ चागमनिरपेक्ष एवोच्यते, स इत्यनेन प्रकारेण निरागमः । उदाहरणम्--सततमिति । अत्र विप्रस्य राजसूयाश्वमेधौ यागौ कथितौ । तौ च वेदगम्यौ । वेदे च तयोर्नृपस्यैवाधिकारो न ब्राह्मणस्येत्युक्तम् ।। अथ बाधयन् --

यः पूर्वमन्यथोक्तं तद्वक्तृकमेव बाधयेदर्थम् । अर्थः स बाधयन्निति मृगाक्षि नेत्रे तवानुपमे ॥ ७ ॥

य इति । योऽर्थ उत्तरकालं भण्यमानः समानवक्तृकं पूर्वमन्यथोक्तमर्थ बाधयेत्स बाध-. यन्निति भण्यते । यथा-मृगाक्षि नयने तवानुपमे, अत्र येनैव वक्त्रा प्रथमं मृगाक्षीत्युक्तं तेनैव पुनस्तव नयने अनुपमे इति पूर्वस्य बाधकमुक्तम् । इदं चात्र निदर्शनम् । यथा ‘वपुरनुपमं नाभेरूर्ध्व विधाय मृगीदृशो ललितललितैरङ्गन्यासैः पुरा रभसाद्रिव। तदनु सहसा खिन्नेनेव प्रजापतिना भृशं पृथुलपृथुला स्थूलस्थूला कृता जघनस्थली ।।' अत्र नाभेरूर्ध्वमनुपमं वपुरित्याधुक्त्वा मृगीदृश इत्युक्तम् ।। अथासंबद्धः -- प्रक्रान्तानुपयोगी प्राप्तो यस्तत्क्रमादसंबद्धः। स इति गता ते कीर्तिर्बहुफेनं जलधिमुल्लङ्घच ॥ ८ ॥ प्रक्रान्तेति । योऽर्थः प्रक्रान्तार्थक्रमायातोऽपि प्रक्रान्तेऽर्थेऽनुपयोगी सोऽसंबद्ध इ- त्युच्यते । उदाहरणम्--गता ते कीर्तिरित्यादि । अत्र जलधौ संबद्धत्वात्फेनानां बहु- फेनत्वं क्रमप्राप्तम् । अथ च प्रस्तुतेऽर्थेऽनुपयोगि । यदि बहुफेनत्वं जलधेर्दुस्तरत्वे