पृष्ठम्:काव्यालङ्कारः (रुद्रटः).pdf/१३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१० अध्यायः] काव्यालंकारः । १३९ तुल्यत्वं वक्ति-स हि हरः सतीं नारीमुमाख्यां बिभति धोरयति । भवानपि शोभना नारी बिभत पोषयत्येव। अथवा सन्न अवसादं गता अरीभा रिपुकरिणो रणे यस्य स तथाविधः । हरो वृषं जरद्भवमधिरूढः । भवानपि वृषं धर्मम् । तथा हरेण विद्विषां त्रिपुरवासिनां विषमास्तिस्रः पुरो दग्धाः । भवतात्यन्तदुर्गाः शत्रुणा पुरा दग्धाः । सर्वत्र किंशब्दः प्रश्ने । तथा तस्य परमेश्वर इति संज्ञा । त्वमपि परम उत्कृष्ट ईश्वरो ऽर्थवान् । एवं यादृशो हरस्तादृशो भवानपि । तद्यथा तेन भुजंगैः सह संपर्कः कृतस्तथा त्वयापि खिडैः कथं न कृत इति व्यतिरेकस्य श्लेषस्य चात्र संकरः । साधारणविशे षणयोगात् श्लेषसद्भावः (श्लैषणयोगात्) । हरे उपमाने भुजंगसंङ्गस्य दोषस्य सत्त्वा द्राजनि चासत्वाङ्गुणत्वे सति व्यतिरेकसद्भावः । एतौ चात्र तिलतण्डुलवत्प्रकटौ । इदानीमव्यक्तसंकरोदाहरणमाह आलोकनं भवत्य जननयनानन्दनेन्दुकरजालम् । हृदयाकर्षणपाशः स्मरतापप्रशमहिमसलिलम् ॥ २८ ॥ आलोकनमिति। भवत्या आलोकनं जननयनानन्दनेन्दुकरजालमेवेति रूपकम् । गुणानां साम्ये सत्युपमानोपमेययोरभिदेति रूपकलक्षणात् । अथवा भवत्या आलोकनं जननयनानन्दने इन्दुकरजालमिवेत्युपमा । एतौ चालंकारावव्यक्तांशौ । अत्र प्रमाणा भावादेकत्रानिश्चयः । दोषाभावाच्चोभयमप्याश्रयितुं योग्यम् । एवं हृदयाकर्षणपाश एव, पाश इव वा । स्मरतापप्रशमने हिमसलिलमेव तदिव वेति । रूपकोपमासंकरो ऽयमलंकार ।। तथा आदौ चुम्बति चन्द्रबिम्बविमलां लोलः कपोलस्थलीं संप्राप्य प्रसरं क्रमेण कुरुते पीनस्तनास्फालनम् । युष्मदैरिवधूजनस्य सततं कण्ठे लगत्युछस लिंक वा यन्न करोत्यवारितरसः कामीव बाष्पः पतन् ॥ २९ ॥ आदाविति । हे नृप, युष्मद्भरिवधूजनस्य संबन्धी बाष्पः पतन्प्रसरन्कामोव किं वा यनं करोति । वा इवार्थे। किमिव यन्न करोतीत्यर्थः । बाष्पस्तावत्पतन्प्रथमं कपोल स्थलीं चुम्बति । कामुकोऽपि तथैव । ततो बांड्पः प्रसरं प्राप्य क्रमेण पीनस्तनास्फा लनं कुरुते । काम्यपि तदेव । ततः कण्ठे च द्वावपि लगतः । ततश्ववारितरसो बाष्पः ॐ • कासीव किमिव न कुरुते । जघनस्थलमपि स्पृशतीत्यर्थः । अत्र रूपकोपमाश्लेषपर्या- याणां संकरः । तत्र कपोलस्थलीमिति रूपकम् । कामोव चन्द्रबिम्बविमलामिति चोपमा । बांध्पकामिनोः साधरणविशेषणयोगाच्छे । शत्रवश्च त्वया जिता इति ता- पर्यतः पययसद्भाव इति । अत्र चालंकरसंकरें’ पूर्वकविलक्ष्याणि भूरिशो दृश्यन्त इत्यत्र महानादरः कार्यः । तथा च-दिवाकराब्रक्षति यो गुहासु' इत्यादि । अत्रोत्प्रे