पृष्ठम्:काव्यालङ्कारः (रुद्रटः).pdf/१२६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१२६ काव्यमाला । उदाहरणम् -- स्फुटमपरं निद्रायाः सरसमचैतन्यकारणं पुंसाम्। अपटलमान्ध्यनिमित्तं मदहेतुरनासवो लक्ष्मीः ॥ २१ ॥ स्फुटमिति । अत्राचैतन्यनिमित्तत्वं निद्रायाः प्रसिद्धम् । आन्ध्यहेतुत्वं पटलस्य । मदकारणत्वमासवस्य। अथ चान्यस्यार्थस्य लक्ष्मीलक्षणस्योक्तमिति ।। अथ तद्गुणः- यस्मिन्नेकगुणानामर्थानां योगलक्ष्यरूपाणाम् । संसर्गे नानात्वं न लक्ष्यते तद्गुणः स इति ॥ २२ ॥ यस्मिन्निति । यत्राभिन्नगुणानामर्थानां संबन्धे सति नानात्वं भेदो न लक्ष्यत इत्यु- च्यते स तद्गुणो नामालंकारः स्यात् । स एव गुणो यत्रेति कृत्वा । ननु दुग्धतक्रादीनां संसर्गे नानात्वं न लक्ष्यत एव तत्किमतिशयत्वमित्याह—योगलक्ष्यरूपाणामिति। यत्र योगे सति रूपं लक्षयितुं शक्यमथवा लक्ष्यमिति कथ्यत इत्यर्थः ।। उदाहरणम् -- नवधौतधवलवसनाश्चन्द्रिकया सान्द्रया तिरोगमिताः । रमणभवनान्यशङ्कं सर्पन्त्यभिसारिकाः सपदि ॥ २३ ॥ नवेति । अत्र ज्योत्स्नाभिसारिकोलक्षणावर्थावेकेन सहजाहार्येण शुक्लगुणेन युक्तौ सं- सर्गे लक्ष्यरूपावप्यलक्ष्थतयोक्तौ ।। भेदान्तरमाह-- असमानगुणं यस्मिन्नतिबहलगुणेन वस्तुना वस्तु । संसृष्टं तद्गुणतां धत्तेऽन्यस्तद्गुणः स इति ॥ २४ ॥ असमानेति । यत्र वस्तुनान्येन संसृष्टं वस्तु तद्गुणतां धत्ते तदीयगुणं भवतीति क- थ्यते स इत्यन्यस्तद्गुणः । कदाचिदेकगुणता तयोर्भविष्यति, अतो नातिशयत्वमित्याह - अतिबंहलगुणेनेति । अतिबहुगुणता तद्गुणत्वहेतुः क्रियत इत्यर्थः । कुब्जकमालापि कृतां कार्तस्वरभास्वरे त्वया कण्ठे । एतत्प्रभानुलिप्ता चम्पकदामभ्रमं कुरुते ॥ २१ ॥ कुब्जकमालेति । अत्र शुक्लगुणा कुब्जकमाला गौरवर्णकण्ठेन संपृक्ता गौरमेव वर्णे धत्ते । अथाधिकम्- यत्रान्योन्यविरुद्धं विरुद्धबलवत्क्रियाप्रसिद्धं वा । वस्तुद्वयमेकस्माज्जायत इति तद्भवेदधिकम् ॥ २६ ॥