पृष्ठम्:काव्यालङ्कारः (रुद्रटः).pdf/१२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

--.** %. ८ अध्यायैः । काव्यालंकारः । १२१ अर्थक्रिययेति । तयोरुपमानोपमेययोर्यत्सामान्यं साधारणं गुणक्रियासंस्थानादि त कारणं यस्यास्तया तथाविधयार्थक्रियया यत्रोपमानस्योपमेयसाम्यमिति तत्साम्यं भवेत् । उदाहरणम् अभिसर रमणं किमिमां दिशमैन्द्रीमाकुलं विलोकयसि । शशिनः करोति कार्यं सकलं मुखमेव ते मुग्धे ॥ १०६ ॥ अभिसरेति । अत्र शयुपमानं मुखमुपमेयम्, प्रकाश्यमर्थक्रियासामान्यं कान्तिमत्त्वं भेदान्तरमाह सवकारं यस्मिन्नुभयोरभिधातुमन्यथा साम्यम् । उपमेयोत्कर्षकरं कुर्वीत विशेषमन्यत्तत् ॥ १०७ ॥ सर्वाकारमिति । यस्मिन्नुपमेयोत्कर्षकराद्विशेषादन्यथा प्रकारान्तरेणोभयोरुपमानोपमै ययोः सर्वाकारं सर्वात्मना साम्यमभिधातुमुपमेयोत्कर्षकरविशेषं कंचन कविः कुवत त- दन्यत्साम्यमलंकारः ।। उदाहरणम् मृगं मृगाङ्कः सहजं कलहं विभर्ति तस्यास्तु मुखं कदाचित् । आहार्यमेवं मृगनाभिपत्रमियानशेषेण तयोर्विशेषः ॥ १०८ ॥ मृगमिति । अनाहार्येकादाचित्कमृगनाभिपश्ररूपकालंकारभणनविशेषेणोपमेयस्य सु खस्योत्कर्षः प्रतिपादितः। अन्यथा तु नयनाहादनादिगुणैः सर्वथा साम्यमुक्तमिति । अथ स्मरणम्: वस्तुविशेषं दृष्ट्वा प्रतिपत्ता स्मरति यत्र तत्सदृशम् । कालान्तरानुभूतं वस्त्वन्तरमित्यदः स्मरणम् ॥ १०९ ॥ वस्त्विति । यत्र प्रतिपत्ता विशिष्टं वस्तु किंचनावलोक्य कालान्तरानुभूतं वस्त्वन्तरं स्मरति, अद एतत्स्मरणं नामालंकारः । अथ भ्रान्तिमतोऽस्य च को विशेषः । उच्यते—तत्रोपमानावगतिरेव नतूपमेयावगतिः । इह तुपमानस्मरणमात्रं न भ्रान्तिरिति ॥ उदाहरणम् तव भवने पश्यन्तः स्थूलस्थूलेन्द्रनीलमणिमालाः । भूभृन्नाथ मयूराः स्मरन्त्यमी कृष्णसर्पणाम् ॥ ११० ॥ तवेति । अत्रेन्द्रनीलमणिमालादर्शनात्तत्सदृशं कृष्णसख्यं वस्त्वन्तरं मयूराः स्मर न्तीति लक्षणयोजना ॥ इति श्रीरुद्रटकृते काव्यालंकारे नमिसाधुविरचितटिप्पणसमेतो- ऽष्टमोऽध्यायः समाप्तः । १६