पृष्ठम्:काव्यालङ्कारः (रुद्रटः).pdf/११८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काव्यमाला । ११८ च जनयतीति । अत्र चन्द्रकलाकोमलत्वेनापि संतापकत्वे सति विस्मयः । अथ विरहे तथैव प्रतीयमानत्वाद्वस्तुत्वं प्रसिद्धम् । ततश्च किमत्र चित्रमित्येतेनाक्षिप्य तथाव सिद्धौ हिमानीलक्षणमुपमानमुक्तम् । अथ विरुद्धोदाहरणमाह तव गणयामि गुणानहमलमथवासत्प्रलापिनीं धिम् । कः खलु कुम्भैरम्भो मातुमलं जलनिधेरखिलम् ॥ ९१ ॥ तवेति । अत्र समस्तगुणगणनशक्यत्वाद्विरुद्धमथवेत्यादिनाक्षिप्य तद्विरुद्धत्वसिद्ध्यर्थ मन्यदुपमानमुक्तं क इत्यादिना ।। अथ प्रयनाकम् वर्तमुपमेयमुत्तममुपमानं तज्जिगीषया यत्र । तस्य विरोधीत्युक्त्या कल्प्येत प्रत्यनीकं तत् ॥ ९२ ॥ वक्तुमिति । यत्रोपमेयमुत्तमं वक्तं तज्जिगीषयोपमेयविजयेच्छया हेतुभूतया तस्योप वि मेयस्य विरोधीति विपक्षभूतमित्युपमानं कल्प्येत तत्प्रत्यनीकनामालंकारः । ननु रुद्धयोः कथमौपम्यमित्याह-उक्त्या वचनमात्रेण विरोधो न तत्वतः। उपमेयस्तुति- स्त्वत्र तात्पर्यार्थः । उदाहरणम् यादि तव तया जिगीषोस्तद्वदनमहारि कान्तिसर्वस्वम् । मम तत्र किमापतितं तपासि सितांशो यदेवं माम् ॥ ९३ ॥ यदीति । अत्र मुखमुत्तमं वक्तुं तज्जिगीषया शशी उपमानं कल्पितः । एतच्च वचन माणन तत्वतः ।। अथ दृष्टान्तः अर्थविशेषः पूर्वं यादृङ् न्यस्तो विवक्षितेतरयोः। तादृशमन्यं न्यस्येद्यत्र पुनः सोऽत्र दृष्टान्तः ॥ ९४ ॥ अर्थेति । विवक्षितेतरयोः प्रस्तुताप्रस्तुतयोरर्थविशेषयोर्मध्याद्यादृशो येन धर्मेण युक्तो ऽर्थविशेषः पूर्वमादौ न्यस्तो भवेत्तादृशं तद्धर्मयुक्तमेव पुनस्तमर्थविशेषमन्यं यत्र वक्ता न्यस्येत्स दृष्टन्तो नामालंकारः । विशेषग्रहणमर्थान्तरन्यासादस्य भेदख्यापनार्थम् । तत्र हि सामान्यविशेषयोर्मध्यादेकमुपमानमन्यदुपमेयम् । इह तु द्वयमपि विशेषरूपमिति । भयन्यासस्यास्मात्सत्सामान्यत्वादिविशेषः ।। विवक्षितोदाहरणमाह त्वाय दृष्ट एव तस्या निर्वाति मनो मनोभवज्वलितम् । आलोके हि सितांशोर्विकसति कुमुदं कुमुद्वत्याः ॥ ९१ ॥