पृष्ठम्:काव्यालङ्कारः (रुद्रटः).pdf/११५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

< अध्यायः] काव्यालंकारः। उदाहरणमाह- मुक्त्वा सलीलहंसं विकसितकमलोज्ज्वलं सरः सरसम् । बकलुलितजलं पल्वलमभिलषसि सखे न हंसोऽसि ॥ ७९ ॥ मुक्त्वेति । अत्र हंसेनोपमानेनोक्तन सज्जनः प्रतीयते । विशेषणानि चात्र सलीलहं- सादीन्यसमानानि । नहि पुरुषः सरो मुक्त्वा पल्वलमभिलषति । इतिवृत्तं तु समानम् । यतस्तस्य शिष्टजनाधिष्ठितं स्थानं त्यजतः खलमन्यं चाश्रयतस्तत्तुल्य उपालम्भ इति ।। अथ प्रतीपमाह-- यत्रानुकम्प्यते सममुपमाने निन्द्यते वापि । उपमेयमतिस्तोतुं दुरवस्थमिति प्रतीपं स्यात् ॥ ७६ ॥ यत्रेति । यत्रोपमेयमनुकम्प्यते निन्द्यते वा तत्प्रतीपं नामालंकारः । कस्मात्तस्य नि- न्दानुकम्पे क्रियेते इत्याह-सममुपमाने इति कृत्वा । यत उपमानेन तुल्यमतो निन्दा- नुकम्पे तस्येत्यर्थः । तादृशं तर्हि किमर्थमुपमानं क्रियत इत्याह-अतिस्तोतुं सातिशयमु- पमेयं ख्यापयितुम् । ननु यदि सातिशयं तद्युपमानेन सह साम्यं नास्तीत्याह-दुरवस्थ- मिति । इतिहेतौ । यतो दुष्टामवस्थां प्राप्तम्। उपमेयमुपमानेन समम्, अत एव निन्द्यते- ऽनुकम्प्यते वेत्यर्थः । अपिविस्मये । एतदेव चालंकारस्य प्रतीपत्वं यदन्येनान्यद्गम्यते ।। उदाहरणम्- वदनमिदं सममिन्दोः सुन्दरमपि ते कथं चिरं न भवेत् । मलिनयति यत्कपोलौ लोचनसलिलं हि कज्जलवत् ॥ ७७ ॥ वदनमिति । अत्राञ्जनवारिमलिनत्वान्मुखस्य दौरवस्थ्यम्, अत एवेन्दुनोपमीयते । अनुकम्प्यते । तत्त्वतः स्तुतिर्मुखस्य कृता ।। निन्दोदाहरणमाह- गर्वमसंवाह्यमिमं लोचनयुगलेन वहसि किं भद्रे। सन्तीदशानि दिशि दिशि सरःसु ननु नीलनलिनानि ॥ ७८ ॥ गर्वमिति । अत्र बाहुल्योपलभ्यमाननलिननिभनयनवत्तया गर्ववहनानिन्दा स्तुति- प्रातीतिकी । दुरवस्थं कस्मादपि कारणाद्बोद्धव्यम् ।। अर्थान्तरन्यासमाह- धर्मिणमर्थविशेषं सामान्यं वाभिधाय तत्सिद्ध्यै । यत्र सधर्मिकमितरं न्यस्येत्सोऽर्थान्तरन्यासः ॥ ७९ ॥ धर्मिणमिति । यत्रोपमेयं धर्मिणमर्थविशेषरूपं सामान्यरूपं वा केनचिद्धर्मेण परोपका- रादिना युक्तमभिधाय तस्य धर्मस्य दृढीकरणार्थमितरं यथाक्रममेव सामान्यं विशेषरूपं च समानधर्मकमुपमानभूतमर्थे कविय॑स्येत्सोऽर्थान्तरन्यासोऽलंकारः ।।