पृष्ठम्:काव्यालङ्कारः (रुद्रटः).pdf/१०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८ अध्यायः काव्यालंकारः । १०६ णालिकाकोमलबाहुयुग्मा सरोजपत्रारुणपाणिपादा । सरोजिनीचारुतनुर्बभाति प्रियालि नीलोज्ज्वलकुन्तलासौ ॥' तथा–‘पद्मचारुमुखी भाति पद्मपत्रायतेक्षणा । दशनैः के- सराक्ररैरलिनीलशिरोरुहा । समासोपमेयं द्विधा । ‘लतायसेऽतितन्वी त्वमोष्ठस्ते पल वायते । सितपुष्पायते हासो भृङ्गयन्ते शिरोरुहाः ’ ‘मुखेन पद्मकल्पेन भाति सा हंस- गामिनी । दोभ्य मृणालकल्पाभ्यामलिनीलैः शिरोरुहैः ॥’ प्रत्ययोपमेयं द्विधा । अथोत्प्रेक्षा अतिसारूप्यादैक्यं विधाय सिद्धोपमानसद्भवम् । आरोप्यते च तस्मिन्नतव्रणादीति सोत्प्रेक्षा ॥ ३२ ॥ अतिसारूप्यादिति । उपमानोपमेययोरतिसादृश्याद्धेतोरैक्यमभेदं विधाय । कीदृशं तत् । सिद्ध उपमानस्यैव, न तूपमेयस्य, सद्भावः सत्त्वं यत्र तत्तथाविधम् । अनन्तरं च तस्मिन्नुपमाने तस्योपमानस्य ये गुणक्रिये न संभवतस्ते समारोप्येते यत्र सा । इत्यमुना प्रकारेणोत्प्रेक्षा भण्यते । चशब्दोऽतहुणाद्यनध्यारोषितस्यापि समुच्चयार्थः । येन सि द्धोपमानसद्भावे तयोरभेदमात्रेऽप्युत्प्रेक्षा दृश्यते । यथा-‘तं वदन्तमिति विष्टरश्रवाः श्रावयन्नथ समस्तभूभृतः । व्याजहार दशनांशुमण्डलव्याजहारशबलं दधद्वपुः ॥’ इत्यादि । उदाहरणम् चम्पकतरुशिखरमिदं कुसुमसमूहच्छलेन मदनशिखी । अयमुच्चैरारूढः पश्यति पथिकान्दिधशुरिव ॥ ३३ ॥ चम्पकेति । अत्रोपमेयश्चम्पकराशिरुपमानं मदनाग्निस्तयोर्लौहित्येन सारूप्यादैक्यं सिद्धोपमानसद्भावं विधाय ततोऽग्नेर्यद्दर्शनमचेतनत्वादसंभवि तदारोपितमिति । प्रकारान्तरमाह सान्येत्युपमेयगतं यस्यां संभाव्यतेऽन्यदुपमेयम् । उपमानप्रतिबद्धपरोपमानस्य तन्वेन ॥ ३४ ॥ सेति । इतीत्थं सान्योत्प्रेक्षा यत्रोपमेयस्थमुपमेयान्तरमुपमानप्रतिबद्धस्योपमानान्तरस्य तत्त्वेन तादूप्येण संभाव्यते । उदाहरणम् आपाण्डुगण्डपालीविरचितमृगनाभिपत्ररूपेण । शशि शङ्कयेव पतितं लाञ्छनमस्या मुखे सुतनोः ॥ ३१ ॥ आपाण्डुगण्डेति । अत्र शरयुपमानं तत्प्रसिद्धमपरं लाञ्छनमुपमानान्तरम् । तत्सादृ• येनोपमेयं नायिकामुखगतमन्यदुपमेयं मृगनाभिपत्रलक्षणं संभावितमिति । १४