सामग्री पर जाएँ

पृष्ठम्:काव्यसंग्रहः.pdf/३१५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३०२
दग्धमुखमण्डनं । ।

व्यक्तीकृत्य कमप्यर्थं स्वरूपार्थस्य गोपनात् ।
यच वायांतरावर्थो कथ्येते सा प्रहेलिका ॥ १ ॥
सा द्विधार्थी च शाब्दी च विस्थाता प्रशासने ।
श्रार्थी स्यादर्थविज्ञानाच्छाब्दीशब्दविभागतः ॥ २ ॥
तरुण्यालिङ्गितः कंठे नितम्बस्थलमाश्रितः ।
गुरूणां संमिधानेपि कः कूजति मुहुर्मुहुः ॥ ३ ॥
पानीयकुंभः ॥
आपाण्डु पीनकठिमं वर्तुलं सुमनोहरं ।
करैराकृष्यतेऽत्यर्थं किं हवैरपि सस्पृहं ॥ ४ ॥
पक्कविलफलं ॥ इत्यार्थीजातिः ॥
दुर्वारवीर्य सरुषि त्वयि का प्रसुप्ता
श्यामा सपत्नहृदये सुपयोधरा च ।
तुष्टे पुनः प्रणतशचुसरोजसूर्ये
सैवाद्यवर्णरहिता वद नाम का स्यात् ॥ ५ ॥ शस्त्री ॥
सदारिमध्यापि न वैरियुक्ता
नितान्तरक्तापि सितैवनित्यं ।
यथोक्तवादिन्यपि नैव दूतिका
का नाम कान्तेति निवेदयाशु ॥ ६ ॥
सारिका ॥ शाब्दीजातिः ॥
नीरस श्राउण सो बहुगुणवन्तउ भमइ
निरंतरु णीञ्चलहोतउ ।
तरुगिज्जइ उण फलुपन्तु ससु