भवानि द्रुह्येतां भवनिबिडितेभ्यो मम मुहु-
स्तमोव्यामोहेभ्यस्तव जननि कामाक्षि चरणौ.
ययोर्लाक्षाबिन्दुस्फुरणदशया धूर्जटिजटा-
कुटीरा शोणाङ्कं वहति वपुरेणाङ्ककलिका ॥ १३ ॥
पवित्रीकुर्युर्नः पदतलभुवः पाटलरुचः
परागास्ते पापप्रशमनधुरीणास्तव शिवे ।
कणं लब्धं येषां निजशिरसि कामाक्षि नियतं
बलन्तो व्यातन्वन्त्यहमहमिकां वासवमुखाः ॥ १४ ॥
बलाकामालाभिर्नखरुचिमयीभिः परिवृते
विनम्रस्वर्नारीविकचकचकालाम्बुदकुले
स्फुरन्तः कामाक्षि स्फुटदलितबन्धूकसुहृद-
स्तडिल्लेखायन्ते तव चरणपाथोजकिरणाः ॥१५॥
सरागः सद्वेषः प्रसृमररजस्कः प्रतिदिनं
निसर्गादाक्रामन्विबुधजनमूर्धानमधिकम् ।
कथंकारं मातः कथय पदपद्मस्तव सतां
नतानां कामाक्षि प्रकटयति कैवल्यसरणिम् ॥ १६ ॥
जपालक्ष्मीशीणो जननि परमज्ञाननलिनी-
विकासव्यासङ्गो विफलितजगज्जाड्यगरिमा
मनःपूर्वाद्रिं नस्तिलकयतु कामाक्षि तरसा
तमस्काण्डद्रोही तव [१]चरणपाथोजरमणः ॥ १७ ॥
नमस्कुर्मः प्रेङ्खन्मणिकटकनीलोपलमहः-
पयोधौ रिद्धद्भिर्नखकिरणफेनैवलिते ।