पृष्ठम्:काव्यमाला ( द्वादशो गुच्छकः).pdf/९७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१२ पद्धतिः]
८९
भिक्षाटनकाव्यम् ।

संप्रीयतां स खलु नाम तया त्वदुत्त्या
(?)यस्यात्मनः स्थिरमति त्वमिवातनोति ॥ १३ ॥
कालात्ययेऽद्य भवता गृहमागतं मे
नास्त्येव भैक्षमखिलेश किमत्र कृत्यम् ।
नास्तीति यो वदति भिक्षुसमक्षमेव
सद्भावमात्मनि निषेधति नैव देये ॥ १४ ॥
अप्रापणे वदनमेति यथा विकासं
भैक्षस्य नैव हि तथा तव तस्य लाभे ।
वाञ्छाम्यलाभमहना(मा)यतलोचनाभ्यः
सद्यो वियोगविपदाहत एव लाभः ॥ १५ ॥
स्वामिन्मया पुरत एव विखण्डितांशो
भूयोऽपि मां किमनुधावसि भैक्षकामः ।
भृङ्गः परामुकुलनेन विमोधकामः
पुष्पं नु किं पुनरुपैति विकासशङ्की ॥ १६ ॥
तुभ्यं ददामि कथमद्य वरेण्य भिक्षां
तां स्वीकरोति कथमेव भवानलज्जः ।
दाता यथारुचि ददात्यमितं मितं वा
गृह्णाति वस्तु मितमप्यम (ग)तिर्दरिद्रः ॥ १७ ॥

इत्युत्प्रेक्षावल्लभकृती भिक्षाटनकाव्ये दीनोक्तिपद्धतिरेकादशी ।

द्वादशी पद्धतिः ।

बध्नाति मे प्रथमवैरिणि पक्षपात-
मेवं जनोऽयमिति जातरूपा स्मरेण ।
निःशङ्कविद्धहृदयस्य वधूजनस्य
यत्पारवस्य (श्य)हृदयं तदुदीरयामः ॥ १ ॥
भूतैः किमन्तिकचरैः सहसा गृहीता
दष्टा शरीरकलितैरुत पन्नगेन्द्रैः ।