पृष्ठम्:काव्यमाला ( द्वादशो गुच्छकः).pdf/७७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५ पद्धतिः]
५९
भिक्षाटनकाव्यम् ।

वाञ्छा तवात्तव मदालसया न चौर्ये
चोरायते ग्रहसरः कलहंसकानाम् ॥ ५ ॥
मुक्तावलीं करतले दयती खकण्ठे
विस्तृत्य कर्तुमबले त्वमतीव भासि ।
मन्त्रेण साधयितुमात्मयतेः शरीरं
वाञ्छावती रतिरिव स्फटिकाक्षमालाम् ॥ ६ ॥
1मर्द्नर्नदीयस्य शरधिद्वयमस्तमूर्ते-
र्जङ्घात्मना परिणतं तव यद्धुवं तत् ।
नो चेत्कथं मदनवैरिसमीपयाने
जङ्घायुतस्य गतिरालि विलम्बिनी ते ॥ ७ ॥
वामे पदे निहितमार्द्रमलक्तकं ते
चान्यत्र यत्तदतिसुन्दरमेव मन्ये ।
येनाद्य लब्धनपरापरिकर्म साम्यं
नारीविमिश्रवपुषः परमेश्वरस्य ॥ ८॥
किं चित्रमत्र जघनं परमुद्वहन्त्या
मद्री(न्दी)भवन्ति यदि ते गतयो वराङ्गी (ङ्गि) ।
यद्वीक्षणेऽपि गतधैर्यगुणा युवानो
गन्तुं मनागपि पुनर्नहि शक्नुवन्ति ॥ ९ ॥
शंभोरवेक्षणमहोत्सव एव लप्स्ये
नायाति शीघ्रमिदमालि पदाम्बुजं ते ।
ज्ञातं मम दृ(द्रु)तगतेश्च फलं प्रयत्ना-
त्संलप्स्यते नयनयुग्ममितीर्ष्य एव ॥ १० ॥
विस्मृत्य यावकमकारि हरीन्द्र(रं दि)दृक्षो-
र्नैवाधरे तव यमस्य(१) तदालि युक्तम् ।