पृष्ठम्:काव्यमाला ( द्वादशो गुच्छकः).pdf/१३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
रामचापस्तवः ।

गोदावर्युपकण्ठसीम्नि कुहनागोकर्णहत्त्यै गुणं
यस्यारीरणदीश्वरो रघुभुवां तद्धन्व मन्ये गतिम् ॥ २५ ॥
पश्चात्पश्यति बाणपातचकिते शश्वन्निवृत्त्याननं
विद्राणे कुहनामृगे विकिरितुं बाणो यदारोपितः ।
देवेन श्रवणान्तकृष्टकपिलज्यावल्लि तत्कार्मुकं
केकागर्भितकण्ठकाननशिखिप्रेक्षापदं पातु नः ॥ २६ ।।
वेगभ्रंशितवृक्षनीडविहगव्यागीर्णविद्रावित-
क्रीडद्रोहितपङ्क्ति दर्भकवलव्यावृत्तमत्तद्विपम् ।
द्रागुत्थापितसुप्तकेसरि जनस्थाने खरायोधने
ज्याघोषं जहति प्रभोर्धनुषि मे चेतो मुहुर्धावति ॥ २७ ॥
वीर्योत्सिक्तखरप्रयुक्तसमरप्रक्रान्तचक्रभ्रमी-
चञ्चत्काञ्चनपञ्जरोदरचरश्रीरामकीरार्भके ।
धावत्येव मनो विनोदरसिकं दिक्षु प्रविक्षिप्तया
विष्वग्घट्टितहेमपट्टकपिशे चापे रुचा पेशले ॥ २८ ।।
त्रासोल्लासविलोललोचननदीपर्यन्तनिर्यन्मृगी-
घासग्रासनिरासशासनगिरा ज्यागर्जितेनोर्जिते ।
कीशाधीशविनाशसाशयशरव्यामोक्षभीमोद्यमे
श्रीमद्रामशरासने सरति मे भद्राय भद्रा मतिः ।। २९ ॥
तद्दिग्भागनिविष्टदृष्टिमचिरव्यापन्नदोर्विक्रमं
चेतःस्फीतभयप्ररोहमुदितप्रत्यङ्गरोमोद्गमम् ।
उद्यद्गद्गदकण्ठनादमुरसि द्राङ्न्यस्ततीक्ष्णाशुगं
कुर्वद्वालिनमाहवे भगवता कृष्टज्यमीडे धनुः ॥ ३० ॥
चञ्चच्चामरदामरश्मिहसितैर्व्याप्तोदरौदन्वत-
त्वङ्गत्तुङ्गतरङ्गगर्वगरिमप्रध्वंससंसूचनम् ।
कोदण्डं कलिखण्डनाय कलये रामस्य भीमस्य त-
त्क्षिप्तोद्दीप्तशराग्रजाग्रदनलज्वालाकरालाम्बरम् ॥ ३१ ॥