पृष्ठम्:काव्यमाला ( द्वादशो गुच्छकः).pdf/१२५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२३ पद्धतिः]
११७
भिक्षाटनकाव्यम्

मातुः पुरो वचनमेवमुदीरयन्त्यां
सख्यां न्यसक्त तरलां दृशमाशु काचित् ॥ १६ ॥
काचिन्निजाशयतिरस्करणाय शंभो-
र्निन्दापराण्यकथयद्वचनानि बाला ।
तानि प्रकोपमधिकं जनयांबभूवु-
स्तस्याः पुनः परिमरैरनुभाषितानि ॥ १७ ॥
गाथाः शिवस्य विलपन्नपरो मृगाक्ष्याः
क्रीडामृगो विरहतापमपाचकार ।
संस्मारयन्निजगलेन सितेतरेण
कण्ठं तदीयमसकृद्गृहबर्हिणोऽपि ॥ १८ ॥

इत्युत्प्रेक्षावल्लभकृतौ भिक्षाटनकाव्येऽनुरागपद्धतिर्द्वाविंशतिः ।

त्रयोविंशी पद्धतिः ।

याभ्यो दुरापहरसंगमलोलुपाभ्यो
बन्धुर्जनस्य कटुपथ्यवचो बभापे ।
तासां तदीयवचनश्रवणार्दितानां
ब्रूमो वचास्यनुगुणार्थमनोहराणि ॥ १ ॥
मातः सदा गिरिशसंगमविघ्नमेव
याचे करोषि न ततः स्वधिजातरोषाः(?) ।
स्नेहं मिथो न गणयन्ति यतः पुरन्ध्र्याः
सापत्न्यमेव करणस्पृहया वदन्ति ॥ २ ॥
मां दुर्निवारविषमास्त्रकृतावसादां
या तर्जयत्यसकृदेव शठैर्वचोभिः ।
अप्राप्य यौवनमनङ्गविधेयमेपा-
मन्ये मदीयजननी जरती बभूव ॥ ३ ॥
अद्यापि शैशवनवं परिवर्तते मे
तन्मैव मां प्रति सवित्र(त्रि) हितोपदेशः ।