पृष्ठम्:काव्यमाला ( द्वादशो गुच्छकः).pdf/१११

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१७ पद्धतिः]
१०३
भिक्षाटनकाव्यम्

तेनैव शान्तिमुपगच्छतु कालकूट-
नित्यास्पदस्य सहसैव गलस्य तापः ॥ ७ ॥
मा जातु चन्द्रशकलाभरण श्मशाने
क्रीडा विभो सह पिशाचगणैर्विधेया ।
क्षुद्रे चिरं परिचयो विहितो विधत्ते
सौजन्यभूषणभृतामपि चित्तभेदम् ॥ ८ ॥
कस्त्वा निरोद्धुमलमीश यथेष्टचारं
विज्ञापनीयमथवास्ति ममैतदेकम् ।
गौरीपयोधरनिसर्गपरिग्रहेऽस्मि-
न्वक्षस्यमङ्गलचिताभसितं निधाय्यम् ॥ ९॥
शार्दूलचर्मवसनव्यसतं विहाय
क्षौमं सुरद्रुमभवं परिधेहि नाथ ।
नैतेन यद्यपि तवास्ति विशेषलाभः
शोभां तदाशु लभतां तव संश्रयेण ॥ १० ॥
प्रागेव जृम्भितमभूदयशो जयत्सु
1पुष्पायुधं यदकरोन्नयनाग्निहव्यम् ।
नेत्रानलोपरि हरास्य सहायमिन्दु-
चूडापगोर्मिपयसा भव सावधानः ॥ ११ ॥
आस्येन हुंकृतिमता स्तनितैः कठोरै-
रुत्तुङ्गश्रृङ्गयुगलेन च भीषणेन ।
यस्त्रास2मावहति भीरुजनास्य शंभो
भित्त्वा जगद्गदमिमं कुरु भैक्ष्यचर्यम् ॥ १२ ॥
तेनैव वित्तपतिना जहि मैत्रबन्धं
याच्ञाञ्जलिः शिरसि नाथ मुहुः कृतो मे ।
भिक्षाटनादुपरतिं तव यो न चक्रे
3शक्तेन चेत्करकरोटिविपर्ययं वा ॥ १३ ॥