असिन्नवसरे प्राप[१] निजं शृङ्गमुजः पुरम् ।
भ्रात्रे हेमशरं दत्त्वा द्रष्टुं जनकमभ्ययात् ।। ३२१ ॥
राजा तु[२] ज्ञातवृतान्तः पुत्रं दृष्ट्वा वधूसखम् ।
हृष्टो महोत्सवं चक्के सिन्दूरारुणिताङ्गणम् ॥ ३२२ ।।
याति काले नरपतिः प्रविश्यान्तःपुरै वचः ।
शुश्राव मधुमत्ताया जायायाः स्वप्नविभ्रमे ॥ ३२३ ।।
युक्त्त्या गुणवती तावन्मिथ्या संदृषिता सती ।
चिन्तनीयस्तु तत्पुत्रः श्रुत्वेति प्रययौ नृपः ॥ ३२४ ॥
भूगृहात्तामयोद्धृत्य प्रसाद्य निजबल्लभाम् ।
संजातप्रत्ययो राजा यौवराज्ये सुतं व्यधात् ।। ३२५ ॥
([३]अन्तःपुरेभ्यः कुषितं पुत्रेभ्यश्च न्यवारयत् ।
यत्नाद्गुणवरा देवी तत्पुत्रश्च नराधिपम् ॥ ३२६ ॥
अत्रान्तरे समभ्यायात्स विप्रोऽन्तःपुराधिपः ।
त्रात्वा पुण्येषु तीर्थेषुः नानाव्र्तऋशाकृतिः ॥ ३१७॥
संपूज्य तं महीपालः पश्यञ्शृङ्गभुजं सुतम् ।
विजिताशेषपातालं जहर्ष दयितासखः ॥ १२८ ॥
इत्येवं शीलशालिन्यो देव भर्तृहिते रताः ।
कुलालंकरणं कान्ताः सन्ति रूपशिखा यथा ॥ ३२९ ।।
इति रूपशिखाख्यायिका ॥ ७ ॥
श्रुत्वा हरिशिखेनेति कथितं नरवाहनः ।
रत्नप्रभासखः प्रायारिस्तुरन्तःपुरं कृती ॥ ३३० ।।
तत्र प्रणम्य वत्सेशं देव्यौ च स मधूत्सवम् ।
भेजे वयस्यसहितो दयितानन्दनिर्भरः ।। ३३१ ।।
निजमन्तःपुरं गत्वा रत्नपर्यङ्कमास्थितः ।
रत्नप्रभाङ्कविन्यस्तपूर्वदेहो रराज सः ॥ ३३२ ॥
१."प्य" ख । २. "प्यज्ञा" ख । ३.एतत्कोठान्तर्गतपाठः ख्-पुस्तके त्रुटितः ॥
३. एतस्कोष्ठान्तर्गत पाठः ख पुस्तके वद्धितः