वनप्रभो बभूवास्थ प्रीतये दयिताप्रजः ।
सर्वविभ्रमलीलासु हृदयस्येव दर्पणः ॥ ९८ ॥
विद्याधरेन्द्रमामत्रय ततो रत्नप्रभासखः ।
यौगन्धरायणगिरा कौशाम्बी सानुगो ययौ ॥ ९९ ॥
रत्नप्रभायुतं दृष्ट्वा वंशमुक्तामणिं सुतम् ।
तत्र भूषितमात्मानं [१]मेने वत्सनरेश्वरः ॥ १०० ॥
इति रत्नप्रभाख्यायिका ॥ ३ ॥
अन्तःपुरं प्रविश्याथ मित्रादिष्टं नृपात्मजः ।
रत्नप्रभानुगो भेजे विलासरसनिर्वृतिम् ॥ १०१॥
ततो व्यजिज्ञपद्दूरात्तमभ्येत्याशु कञ्चक्री ।
गोमुखप्रमुखाः सर्वे देव द्वारि स्थिता इति ॥ १०२॥
ततो रत्नप्रभा प्राह तूर्णमेव प्रवेशय ।
आर्यपुत्रस्य सचिवास्ते हि विश्रम्भसाक्षिणः ॥ १०३ ॥
इति तद्धचसा तेषु प्रविष्टेष्वविलम्बितम् ।
उवाच हासकरुणास्मेराङ्गो नरवाहनः ॥ १०४ ।।
प्रिये निरर्गलक्रीडास्वच्छन्दालापविभ्रमे ।
विघ्नः कञ्चुकिवर्योऽयं कामिना केन निर्मितः ॥ १०५ ॥
रनप्रभा निशम्येति प्रोवाच ललितस्मिता ।
देव कञ्चुकिवर्गोऽयं राजलक्ष्मीविभूषणः ॥ १०६ ॥
अन्तःपुराणि रक्ष्यन्ति न कुब्जजडवामनाः ।
निजशीलं सुसत्त्वानां रक्षा हरिणचक्षुषाम् ।। १०७ ।।
रत्नकूटाभिधद्वीपे राजा रहाधिपोऽभवत् ।
यस्याशीतिसहस्राणि कलत्रं तरलभ्रुवाम् ॥ १०८ ॥
हरेरिबाभवत्तस्य गजः श्वेतो नभश्चरः ।
यमारुह्य जगद्धान्त्वा लेभे भूपतिपुत्रिकाः ॥ १०९ ॥
१."लेभे" ख । २." पञ्चाशी" ख. ॥
लेमें खरे "घवानील,
- ↑ १