पृष्ठम्:काव्यमाला (नवमो गुच्छकः).pdf/१६३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

चतुःषष्ट्युपचारमानसपूजास्तोत्रम् । मुक्ताकुन्देन्दुगौरां मणिमयमुकुटा रत्नताटङ्कयुक्ता- मक्षस्त्रक्पुष्पहस्तामभयवरकरां चन्द्रचूडां त्रिनेत्राम् । नानालंकारयुक्तां सुरमुकुटमणिद्योतितस्वर्णपीठां सानन्दां सुप्रसन्नां त्रिभुवनजननीं चेतसा चिन्तयामि ॥ ६९ ॥ एषा भक्त्या तव विरचिता या मया देवि पूजा स्वीकृत्यैनां सपदि सकलान्मेऽपराधान्क्षमस्व । न्यूनं यत्तत्तव करुणया पूर्णतामेति सर्वं सानन्दं मे हृदयकमले तेऽस्तु नित्यं निवासः ॥ ७० ॥ पूजामिमां पठेत्प्रातः पूजां कर्तुमनीश्वरः । पूजाफलमवाप्नोति वाञ्छितार्थं च विन्दति ॥ ७१ ।। प्रत्यहं भक्तिसंयुक्तो यः पूजनमिदं पठेत् । वाग्वादिन्याः प्रसादेन वत्सरात्स कविर्भवेत् ॥ ७२ ॥ पूजामिमां यः पठति प्रभाते मध्याह्नकालेऽप्यथवा प्रदोषे । धर्मार्थकामान्पुरुषोऽभ्युपैति देहावसाने शिवतामुपैति ॥ ७३ ।। इति श्रीपरमहंसपरिव्राजकाचार्यश्रीमच्छंकराचार्यविरचितचतुःषाष्ट्युपचार- मानसपूजास्तोत्रं समाप्तम् ।