पृष्ठम्:काव्यमाला (नवमो गुच्छकः).pdf/१६१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

चतुःषष्ट्युपचारमानसपूजास्तोत्रम् । मधुकरवृतकुम्भे न्यस्तासिन्दूररेणुः कनककलितघण्टः किङ्किणीशोभिकण्ठः । श्रवणयुगलचञ्चच्चामरो मेघतुल्यो जननि तव मुदे स्तान्मत्तमातङ्ग एषः ॥ ४८॥ द्रुततरतुरगैर्विराजमानं मणिमयचक्रचतुष्टयेन युक्तम् । कनकमयमहं वितानवन्तं भगवति ते हि रथं समर्पयामि ॥ ४९ ॥ हयगजरथपत्तिशोभमानं दिशि दिशि दुंदुभिमेघनादयुक्तम् । अतिबहुचतुरङ्गसैन्यमेतद्भगवति भक्तिभरेण तेऽर्पयामि ॥ ५० ॥ परिस्वीकृतसप्तसागरं बहुसंपत्सहितं मयाम्ब ते । विपुलं धरणीतलाभिधं प्रबलं दुर्गमिदं समर्पितम् ॥ ५१ ॥ शतपत्रयुतैः स्वभावशीतैरतिसौरभ्ययुतैः परागपीतैः । भ्रमरीमुखराकृतैरनन्तैर्व्यजनैस्त्वां जगदम्ब वीजयामि ॥ ५२ ॥ भ्रमरललितलोलकुन्तलाली विगलितकाल्यविकीर्णरङ्गभूमिः । इयमतिरुचिरा नटी नटन्ती तव हृदये मुदमातनोतु मातः ।। ५३ ॥ मुखनयनविलासलोलवेणीविलसितनिर्जितलोलभृङ्गमालाः । युवजनसुखकारिचारुलीला भगवति ते पुरतो नटन्ति बालाः ॥ ५४ ॥ रुचिरकुचतटीनां नाट्यकाले नटीनां प्रतिगृहमथ तत्र प्रत्यहं प्रादुरासीत् । धिमिकितिधिमिधिद्धी घिद्धिघिद्धीधिमिद्धी धिमिकितिधिमितत्ताथेयथेयेति शब्दः ।। ५५ ॥ भ्रमदलिकुलतुल्या लोलधम्मिल्लमारा सितमुखकमलोद्यद्दिव्यलावण्यपूरा । अनुपमतमवेषा वारयोषा नटन्ती परभृतकलकण्ठी देवि धैर्यं तनोतु ॥ ५६ ॥ डमरुडिण्डिमझुर्झुरभल्ली मृदुरवार्द्राघटार्द्राघटाहयः । झटिति झाङ्कृतिभिर्जगदम्बिके मुहुरिमे हृदयं सुखयन्तु ते ॥ ५७ ॥