पृष्ठम्:काव्यमाला (त्रयोदशो गुच्छकः).pdf/४१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३५
शृङ्गारधनदशतकम्।

चापो भूरिति पञ्चबाणसमयो यस्यामिदानीमहो
 सा त्वं वक्षि न जातु किं सुवदने चेतोऽनुरागास्पदम् ॥ १२ ॥
तस्ये पल्लवकल्पिते सुनयना शेते निधायोपरि
 खच्छन्दं करपल्लवं स्तनयुगस्यारामरम्योदरे।
लक्ष्मीं वीक्षितुमागतस्य सुहृदः कामाभिषेकोत्सवे
 रक्ताशोकनवप्रवालकलितं हैमं नु कुम्भद्वयम् ।। १३ ॥
अद्याश्लिष्य निपीय गाढमधरं नीत्वा च वक्षःस्थली
 प्रक्ष्यामि स्मितपूर्वकं प्रतिदिनं माऽसौ यथा पृच्छति
निर्धार्येति दिने न चेतसि निशि प्राप्ता गृहं प्रेयसो
 बाला न क्षरमुत्तरं वितनुते पृष्ठा प्रियेणादरात् ॥ १४ ॥
कान्तो नर्मणि नैपुणेन विदितस्त्वं शैशवद्वेषिणी
 क्रीडाशैलशिरोमणिर्गृहमिदं रम्यो वसन्तोत्सवः
सख्यः कामकथोपचारचतुराः, संभोगकालेऽधुना
 मानो वा कलहोऽथवा यदि कदा तच्चेतसो निर्वृतिः ॥ १५ ॥
जन्मारभ्य न यावदद्य सुसगंमन्याक्रमो हापितः
 स्वैरं तिष्ठतु कान्तया स रमतां मा मां नयध्वं बलात्
इत्थं जल्पति यावदेव सुमुखी तावत्क्षणादागतः
 कान्तस्तल्पमलंचकार च वदन्कस्येदृशी संगतिः ॥ १६ ॥
अज्ञास्ते सुहृदालयोऽतिपिशुनारलं कर्णयोर्दुर्बला
 दृष्टे सागसि वल्लभे मृगद्दशां मानः स्वयं जायते
लोको हासरसाकुलः परगृहे प्रेमोपभेदोद्यतो
 ह्याखुर्दन्तमुखेन खण्डयति सत्यद्धाम्बरं हेलया ॥ १७ ॥
पृष्टः कातरतां विहाय शयने मानापराधौ कदा
 जायेतामिदमुत्तरं कथितवान्स्मित्वा चिरं चिन्तय ।
बाले संप्रति नैतयोस्तु समयः श्रुत्वेति हासच्छला-
 दालीभिः समकालमेव समयं दृष्टा चिरात्तर्जनी ॥ १८ ॥