पृष्ठम्:काव्यमाला (त्रयोदशो गुच्छकः).pdf/१००

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
काव्यमाला ।

इतीति । प्रतोदेन कशया द्रुतः पीडितोर्वा अश्व इव 'वाजिवाहार्वगन्धर्व- इत्यमरः हरिणः पाण्डुः। 'हरिणः पाण्डुरः पाण्डुः' इत्यमरः ।।

 समश्नोसि प्राज्यं पिशितमथ भक्ष्यं बहुविधं
 दधासि प्रावारान्मणिखचितभूषागणधरः ।
 वयस्वैः संभूय ब्रजसि मृगयां पश्यसि बहु
 प्रकारं संवृत्यं किमिति हरिणस्त्वं कृशतरः ॥ ४२ ॥

समश्नासीति । प्राज्यं भूरि । पिशितं मांसम् । प्रावारानितिः । द्वौ प्रावारोत्तरासङ्गौ' इत्यमरः । मृगयां आखेटकम् ॥

 अयं कालः क्षिप्रं कथयितुमिति प्राप्तसमयः
 स गान्धारीपुत्रः शकुनिजनितोत्साहतरलः ।
 पितुर्वाक्यं श्रुत्वानिलतनयदुर्वाक्यजनितं
 तिरस्कारं स्वीयं समकथयदाक्षेपविधुतः ॥ ४३ ।।

अयमिति । अनिलतनयो भीमसेनः ।।

 अये राजन्भीमः सदसि विचरन्तं यदसह-
 त्प्रवादं चाकार्षीत्तदिह हृदयं प्रज्वलति मे।
 न चेच्छामि प्राणान्कथमपि विधर्तुं मृतिरहो
 वरा मे न श्रेयो जगति नियतं जीवनमिह ॥ १४ ॥

अय इति । विचरन्तम् । समां द्रष्टुमिति शेषः । प्रवादं निन्दाम् । प्रज्वलति संतप्तं भवति । संतापहेतुमाह--

 ममाभूद्यैः साकं प्रचुरतरवैरं विधिवशा-
 त्त एवाद्य प्राज्यं सुखमनुभवन्तीह रिपवः ।
 अहो मे धिग्जन्म क्षितितलवृथाभारकरणं
 धिगायुर्धिक्सौख्यं यदिह रिपुभिः स्यात्परिभवः ॥ ४५ ॥

ममेति ! स्पष्ठम् ॥

 न राज्यं नो यानं न च विविधवासांसि न हया
 न नृत्यं नो भक्ष्यं विविधरसमन्नदि च न मे ।