पृष्ठम्:काव्यमाला (चतुर्दशो गुच्छकः).pdf/१८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

12 काव्यमाला सत्कुण्डलप्रचलमण्डलमण्डितांशु- प्रोद्दण्डखण्डशुभताण्डवमण्डिगण्डौ । वर्ण्यौ सुवर्णगणकीर्णवरेण्यवर्णौ कर्णौ गिरीन्द्रजनुषस्तनुतां मुदं नः ॥ ५७ ॥ सिन्दूरपूरपरिपूरितमध्यभागा श्रीमन्मसारधरणी वसुपद्मरागा। सद्भानुभानुनिभृता तिमिरच्छटेव सीमन्तसंततिरगेन्द्रजनेर्मुदे स्यात् ।। ५८ ।। नानाच्छरत्ननिकरद्युतिदाम वामं श्रीहीरकालिसुषमागरिमाभिरामम् । मुक्तावलीवलितमैन्द्रधनुः प्रकामं कामं गिरींद्रजनुषः कुरुतात्किरीटम् ॥ ५९ ॥ वर्ण्याङ्गवर्णवरवर्णनवर्ण्यमाना नानाकवीन्द्रकविताकुललाल्यमाना । नन्दन्निलिम्पललनाततिवन्द्यमाना मानाय में भवतु शैलसुता समाना ।। ६० ।। यस्य प्रभाववशतः कवयामि यामि यद्यत्करोमि कलयामि भजामि नौमि । त्वच्छत्यनावृतमनाश्वलितुं न शक्तः शोण महामहिमशालिमहो नमामि ॥ ६१ ॥ वन्दे सुरासुरकिरीटमणिप्रदीप नीराजिताङ्घ्रिकमलां हिमशैलबालाम् । लक्ष्मीवचो भगवतीकरके किपुच्छ- स्वच्छोच्छलचटुलचामरवीज्यमानाम् ॥ ६२ ॥