पृष्ठम्:कालिदाससूक्तिमञ्जूषा.djvu/९०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

(84) स्तनन्यस्तोशीरं शिथिलितमृणालैकवलयं प्रियायाः साबाधं किमपि कमनीयं वपुरिदम् । समस्तापः कामं मनसिजनिदाघप्रसरयो- र्नतु ग्रीष्मस्यैवं सुभगमपराद्धं युवतिषु ॥ ६ ॥ प्रियंवदा—( जनान्तिकम् ) अनसूये तस्य राजर्षेः प्रथमदर्शनादारभ्य पर्युत्सुकेव शकुन्तला । किं नु खलु तस्यास्तन्निमित्तोऽयमातङ्को भवेत् ? अनसूया-सखि, ममापीदृश्याशङ्का हृदयस्य । भवतु । प्रक्ष्यामि तावदेनाम् । सखि, प्रष्टव्यासि किमपि । बलवान्खलु ते संतापः । शकुन्तला-(पूर्वार्धेन शयनादुत्थाय ) हला, किं वक्तुकामासि ? अनसूया-हला शकुन्तले, अनभ्यन्तरे खल्वावां मदनगतस्य वृत्तान्तस्य । किंतु यादृशातिहासनिबन्धेषु कामयमानानामवस्था श्रूयते, तादृशीं तव पश्यामि । कथय किंनिमित्तं ते संतापः । विकारं खलु परमार्थतोऽज्ञात्वानारम्भः प्रतीकारस्य । राजा-अनसूयामप्यनुगतो मदीयस्तर्कः । नहि स्वाभिप्रायेण मे दर्शनम् । शकुन्तला -(..आत्मगतम् ) बलवान्खलु मेऽभिनिवेशः । इदानीमपि सहसैतयोर्न शक्नोमि निवेदयितुम् । प्रियंवदा-सखि शकुन्तले, सुष्ट्वेषा भणति । किमात्मन आतङ्कमुपेक्षसे ? अनुदिवसं खलु परिहीयसेऽङ्गैः । केवलं लावण्यमयी छाया त्वां न मुञ्चति । राजा-अवितथमाह प्रियंवदा । तथा हि--