पृष्ठम्:कालिदाससूक्तिमञ्जूषा.djvu/४७१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

(227) महतस्तेजसो बीजं बालोऽयं प्रतिभाति मे । स्फुलिङ्गावस्थया वन्हिरेधापेक्ष इव स्थितः ॥ ७-१५ अलक्ष्यपत्रान्तरमिद्धरागया नवोषसा भिन्नमिवैकपङ्कजम्।७-१६ स्मृतिभिन्नमोहतमसो दिष्ट्या प्रमुखे स्थितासि मे सुमुखि । उपरागान्ते शशिनः समुपगता रोहिणी योगम् ।। ७-२२ मेघदूते । रेवां द्रक्ष्यस्युपलविषमे विन्ध्यपादे विशीर्णां भक्तिच्छेदैरिव विरचितां भूतिमङ्गे गजस्य ॥ १९ ॥ संसर्पन्त्या सपदि भक्तः स्रोतसि च्छाययासौ स्यादस्थानोपगतयमुनासङ्गमेवाभिरामा ॥ ५१ ॥ या वः काले वहति सलिलोद्गारमुच्चैर्विमाना मुक्ताजालग्रथितमलकं कामिनीवाभ्रवृन्दम् ।। ६२ ॥ कुमारसम्भवे । पूर्वापरौ तोयनिधी वगाह्य स्थितः पृथिव्या इव मानदण्डः १-१ तया दुहित्रा सुतरां सवित्री स्फुरत्प्रभामण्डलया चकासे । विदूरभूमिर्नवमेघशब्दादुद्भिन्नया रत्नशलाकयेव ॥ १-२४ ॥ महीभृतः पुत्रवतोऽपि दृष्टिस्तस्मिन्नपत्ये न जगाम तृप्तिम् । अनन्तपुष्पस्य मधोर्हि चूते द्विरेफमाला सविशेषसङ्गा ॥१-२७॥ कुबेरस्य मनःशल्यं शंसतीव पराभवम् । अपविद्धगदो बाहुर्भग्नशाख इव द्रुमः ॥ २-२२ ॥