पृष्ठम्:कालिदाससूक्तिमञ्जूषा.djvu/४७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( 40 ) राजा- अयमरविवरेभ्यश्चातकैर्निष्पतद्भि- र्हरिभिरचिरभासां तेजसा चानुलिप्तैः । गतमुपरि घनानां वारिगर्भोदराणां पिशुनयति रथस्ते सीकरक्लिन्ननेमिः ॥ ७ ॥ मातलि:-क्षणादायुष्मान्स्वाधिकारभूमौ वर्तिष्यते राजा-( अधोऽवलोक्य ) वेगावतरणादाश्चर्यदर्शनः संलक्ष्यते मनुष्यलोकः । तथाहि- शैलानामवरोहतीव शिखरादुन्मज्जतां मेदिनी पर्णाभ्यन्तरलीनतां विजहति स्कन्धोदयात्पादपाः । संतानैस्तनुभावनष्टसलिला व्यक्तिं भजन्त्यापगाः केनाप्युत्क्षिपतेव पश्य भुवनं मत्पार्श्वमानीयते ॥ ८ ॥ -~-शाकुन्तले सप्तमोऽङ्कः। Description of the East just before the Moonrise. विदूषकः--( निरूप्य ) प्रत्यासन्नेन चन्द्रोदयेन भवितव्यम् यथा तिमिरेणातिरिच्यमानं पूर्वदिशामुखमालोहितप्रभं दृश्यते । राजा--सम्यग्भवान्मन्यते । उदयगूढशशाङ्कमरीचिभि- स्तमसि दूरतरं प्रतिसारिते। अलकसंयमनादिव लोचने हरति मे हरिवाहनदिङ्मुखम् ॥ ६ ॥ -विक्रमोर्वशीये तृतीयोऽकः ।