पृष्ठम्:कालिदाससूक्तिमञ्जूषा.djvu/४६९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( 225 Appendix c. It is a well-known fact to readers of Sanskrit Literature that the writings of Kalidas are embllished with Similes unparalled for their exquisite beauties and appropri- ateness. We proposed to give a few selections of these, अभिज्ञानशाकुन्तले गच्छति पुरः शरीरं धावति पश्चादसंस्तुतं चेतः । चीनांशुकामिव केतोः प्रतिवातं नीयमानस्य ॥ १-३० ॥ शमप्रधानेषु तपोधनेषु गूढं हि दाहात्मकमस्ति तेजः । स्पर्शानुकूला इव सूर्यकान्तास्तदन्यतेजोऽभिभवाद्वमन्ति ॥२-७॥ सुरयुवतिसंभवं किल मुनेरपत्यं तदुज्झिताधिगतम् । अर्कस्योपरि शिथिलं च्युतमिव नवमालिकाकुसुमम् ॥२-८ ॥ कृत्ययोर्भिन्नदेशत्वाद्वैधीभवति मे मनः । पुरः प्रतिहतं शैले स्रोतः स्रोतोवहो यथा ॥ २-१७ ।। स्मर एव तापहेतुर्निर्वापयिता स एव मे जातः । दिवस इवार्धश्यामस्तपात्यये जीवलोकस्य ॥ ३–१९ ॥ धूमाकुलितदृष्टेरपि यजमानस्य पावक एवाहुतिः पतिता ॥ ४ ॥ शकुन्तला-(पितरमाश्लिप्य । ) कथमिदानी तातस्याङ्कात्परि- भ्रष्टा मलयतरून्मूलिता चन्दनलतेव देशान्तरे जीवितं धारयिष्ये॥४॥ यूथानि संचार्य रविप्रतप्तः शीतं दिवास्थानमिव द्विपेन्द्रः॥५-५ १५