पृष्ठम्:कालिदाससूक्तिमञ्जूषा.djvu/४४८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( 204 ) अव्याक्षेपो भविष्यन्त्याः कार्यसिद्धेर्हि लक्षणम् ॥ १०. ६ ॥ तेजसां हि न वयः समीक्ष्यते ॥ ११.१ ॥ पावकस्य महिमा स गण्यते कक्षवज्ज्वलति सागरेऽपि यः ॥ ११. ७५ ॥ खातमूलमनिलो नदीरयैः पातयत्यपि मृदुस्तटद्रुमम् ॥ ११. ७६ ॥ निर्जितेषु तरसा तरस्विनां शत्रुषु प्रणतिरेव कीर्तये ॥ ११. ८९ ॥ अत्यारूढो हि नारीणामकालज्ञो मनोभवः ॥ १२ ३३ ॥ काले खलु समारब्धाः फलं बध्नन्ति नीतयः ॥ १२. ६९ ॥ अपि स्वदेहात्किमुतेन्द्रियार्था- द्यशोधानानां हि यशो गरीयः ॥ १४. ३५ ॥ छाया हि भूमेः शशिनो मलत्वे- नारोपिताः शुद्धिमतः प्रजाभिः ॥ १४. ४० ॥ आज्ञा गुरूणां ह्यविचारणीया ॥ १४. ४३ ॥ त्राणाभावे हि शापास्त्राः कुर्वन्ति तपसो व्ययम् ॥ १५. ३ ॥ धर्मसंरक्षणार्थैव प्रवृत्तिर्भुवि शार्ङ्गिणः ॥ १५. १४ ॥ वयोरूपविभूतीनामेकैकं मदकारणम् ॥ १७. ४३ ॥ न हि सिंहो गजास्कन्दी भयाद्गिरिगुहाशयः ॥ १७. ५२ ॥ अम्बुगर्भो हि जीमूतश्चातकैरभिनन्द्यते ॥ १७. ६० ॥ स्वादुभिस्तु विषयैर्ह्रतस्ततो दुःखमिन्द्रियगणो निवार्यते ॥ १९. ४९ ॥