पृष्ठम्:कालिदाससूक्तिमञ्जूषा.djvu/४३५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( 190 ) .. श्वश्रूजनं सर्वमनुक्रमेण विज्ञापय प्रापितमत्प्रणामः । प्रजानिषेकं मयि वर्तमानं सूनारेनुध्यायत चेतसेति ॥ ६० ॥ वाच्यस्त्वया मद्वचनात्स राजा वह्नौ विशुद्धामपि यत्समक्षम् । मां लोकवादश्रवणादहासीः श्रुतस्य किं तत्सदृशं कुलस्य ॥६१॥ कल्याणबुद्धेरथवा तवायं न कामचारो मयि शङ्कनीयः । ममैव जन्मान्तरपातकानां विपाकविस्फूर्जथुरप्रसह्यः ॥ ६२ ॥ उपस्थितां पूर्वमपास्य लक्ष्मीं वनं मया सार्धमसि प्रपन्नः । तदास्पदं प्राप्य तयातिरोषात्सोढास्मि न त्वद्भवने वसन्ती॥६३॥ 'निशाचरोपप्लुतभर्तृकाणां तपस्विनीनां भवतः प्रसादात् । भूत्वा शरण्या शरणार्थमन्यं कथं प्रपत्स्ये त्वयि दीप्यमाने॥६४॥ किंवा तवात्यन्तवियोगमोघे कुर्यामुपेक्षां हतजीवितेऽस्मिन् । स्याद्रक्षणीयं यदि मे न तेजस्त्वदीयमन्तर्गतमन्तरायः ॥ ६५ ॥ साहं तपः सूर्यनिविष्टदृष्टिरूर्ध्वं प्रसूतेश्चरितुं यतिष्ये । भूयो यथा मे जननान्तरेऽपि त्वमेव भर्ता न च विप्रयोगः ॥ ६६ ॥ नृपस्य वर्णाश्रमपालनं यत्स एव धर्मों मनुना प्रणीतः । निर्वासिताप्येवमतस्त्वयाहं तपस्विसामान्यमवेक्षणीया ॥ ६७ ॥ तथेति तस्याः प्रतिगृह्य वाचं रामानुजे दृष्टिपथं व्यतीते । सा मुक्तकण्ठं व्यसनातिभाराच्चक्रन्द विग्ना कुररीव भूयः ॥६॥ नृत्यं मयूराः कुसुमानि वृक्षा दर्भानुपात्तान्विजहुर्हरिण्यः । तस्याः प्रपन्ने समदुःखभावमत्यन्तमाद्रुिदितं वनेऽपि ॥ ६९ ॥ तामभ्यगच्छद्रुदितानुसारी कविः कुशेध्माहरणाय यातः । निषादविद्धाण्डजदर्शनोत्थः श्लोकत्वमापद्यत यस्य शोकः॥७०॥