( 186 ) अथ सा पुनरेव विह्वला वसुधालिङ्गनधूसरस्तनी । विललाप विकर्णिमूर्धजा समदुःखामिव कुर्वती स्थलीम् ॥ ४ ॥ उपमानमभूद्विलासिनां करणं यत्तव कान्तिमत्तया । तदिदं गतमादृशो दशां न विदीर्ये कठिनाः खलु स्त्रियः ॥ ५ ॥ क्व नु मां त्वदधीनजीवितां विनिकीर्य क्षणभिन्नसौहृदः । नलिनीं क्षतसेतुबन्धनो जलसंघात इवासि विद्रुतः ॥ ६ ॥ कृतवानसि विप्रियं न मे प्रतिकूलं नच ते मया कृतम् । किमकारणमेव दर्शनं विलपन्त्यै रतये न दीयते ॥ ७ ॥ स्मरसि स्मर मेखलागुणैरुत गोत्रस्खलितेषु बन्धनम् । च्युतकेशरदूषितेक्षणान्यवतंसोत्पलताडनानि वा ॥ ८ ॥ हृदये वससीति मत्प्रियं यदवोचस्तदवैमि कैतवम् । उपचारपदं न चेदिदं त्वमनङ्गः कथमक्षता रतिः॥९॥ परलोकनवप्रवासिनः प्रतिपत्स्ये पदवीमहं तव । विधिना जन एष वञ्चितस्त्वधीनं खलु देहिनां सुखम् ॥ १० ॥ रजनीतिमिरावगुण्ठिते पुरमार्गे घनशब्दविक्लवाः । वसतिं प्रिय कामिनां प्रियारत्वदृते प्रापयितुं क ईश्वरः ।। ११ ।। नयनान्यरुणानि चूर्णयन्वचनानि स्खलयन्पदे पदे । असति त्वयि वारुणीमदः प्रमदानामधुना विडम्बना ॥ १२ ॥ अवगम्य कथीकृतं वपुः प्रियवन्धोस्तव निष्फलोदयः । बहुलेऽपि गते निशाकरस्तनुतां दुःखमनङ्ग मोक्ष्यति ॥ १३ ॥ हरितारुणचारुबन्धनः कलपुंस्कोकिलशब्दसूचितः । वद संप्रति कस्य बाणतां नवचूतप्रसवो गमिष्यति ॥ १४ ॥
पृष्ठम्:कालिदाससूक्तिमञ्जूषा.djvu/४३१
दिखावट