पृष्ठम्:कालिदाससूक्तिमञ्जूषा.djvu/४३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( 36 ) Description of the natural scenery in the vicinity of the Hermitage of Sage Kashyapa by King Dushyanta. राजा-( समन्तादवलोक्य । ) सूत, अकथितोऽपि ज्ञायत एव यथायमाश्रमाभोगस्तपोवनस्येति । सूत:--कथमिव । राजा--किं न पश्यति भवान् । इह हि नीवाराः शुकगर्भकोटरमुखभ्रष्टास्तरूणामधः प्रस्निग्धाः क्वचिदिङ्गुदीफलभिदः सूच्यन्त एवोपलाः । विश्वासोपगमादभिन्नगतयः शब्दं सहन्ते मृगा- स्तोयाधारपथाश्च वल्कलशिखानिष्यन्दरेखाङ्किताः ॥ १३ ॥ सूत: -सर्वमुपपन्नम् । -शाकुन्तले प्रथमोऽङ्कः । Description of the hermitage of Sage Maricha. मातलि:- साधु दृष्टम् । (सबहुमानमवलोक्य । ) अहो, उदार- रमणीया पृथिवी। राजा–मातले, कतमोऽयं पूर्वापरसमुद्रावगाढः कनकरसेनिस्यन्दो सांध्य इव मेघपरिधः सानुमानालोक्यते । मातलि:—-आयुष्मन्, एष खलु हेमकूटो नाम किंपुरुषपर्वतस्तपःसंसिद्धिक्षेत्रम् । पश्य । स्वायंभुवान्मरीचेर्यः प्रबभूव प्रजापतिः । सुरासुरगुरुः सोऽत्र सपत्नीकस्तपस्यति ॥९॥ ..