पृष्ठम्:कालिदाससूक्तिमञ्जूषा.djvu/४१७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( 171 ) -सखे, पश्य । भ्रूभङ्गभिन्नतिलकं स्फुरिताधरोष्ठं सासूयमाननमितः परिवर्तयन्त्या । कान्तापराधकुपितेष्वनया विनेतु: संदर्शितेव ललिताभिनयस्य शिक्षा ॥ ९ ॥ विदूषकः -अनुनयसज्ज इदानीं भव । मालविका–आर्यगौतमोऽत्र न संसेवते । (पुनःस्थानान्तराभि- चतुमिच्छति।) बकुलावलिका--(मालविका रुद्ध्वा ।) न खलु कुपितेदानीं त्वम् । मालविका-यदि चिरं कुपितामेव मां मन्यसे, एष प्रत्यानीयते राजा-----( उपेत्य।) कुप्यसि कुवलयनयने चित्रार्पितचेष्टया किमेतन्मे । ननु तव साक्षादयमहमनन्यसाधारणो दासः ॥ १० ॥ बकुलावलिका-जयतु भर्ता । मालविका--(आत्मगतम् । ) कथं चित्रगतो भर्ता मयासूयितः । सप्रणयवदनमञ्जलिं करोति ।) ( राजा मदनकातर्य रूपयति ।) विदूषकः-किं भवानुदासीन इव । राजा-अविश्वसनीयत्वात्सख्यास्तव । विदूषकः-अत्रभवत्यामयं तवाविश्वासः राजा.-श्रूयताम् ।